38 विक्षेपः

मूलम् - 2.2.26

॥ विक्षेपः ॥
कथामवगाह्यैव तद्विच्छेदमिच्छतो नावश्यकापसरणव्याजवचनं विक्षेपः; यथा-महदिदानीं मे कृत्यमतिवर्तत इत्यादि । आवश्यकानां तु लौकिकवैदिकानामनलीकानां विच्छेदाभिसंधिलिङ्गत्वाभावादनिग्रहः; यथा-युयुत्सूनामेव मध्ये विश्रमाद्यर्थं निवृत्तिः । व्याजमभिधायापि कथाकरणे तु नैतन्निग्रहस्थानम्, विच्छेदार्थत्वाभावात् । तदानीं तदभिधानस्य प्रकृतानुपयोगादर्थान्तरत्वं तु तत्र स्यादेव । अपजयभयादेरपसरणसंभवः । वाक्छूरगर्हितं वादादपसरणं न कुर्यादिति समयः ॥