37 अप्रतिभा

मूलम् - 2.2.25

॥ अप्रतिभा ॥
कथां प्रविष्टस्य साधनदूषणाद्यप्रतिप€त्तिरप्रतिभा । उत्तरस्याप्रतिपत्तिरप्रतिभेति प्राचामुपदेशः साधनाप्रतिपत्तेरप्युपलक्षणार्थः विशेषाभावात्, अस्य प्रथमपर्वण्यपि संभवात् । अनुभाषितेप्युत्तराभासस्याप्यवचनोपपत्तेरननुभाषणादेर्भेदः गगनसूचनभूविलेखनकेशविरचनसाध्वसस्वेदादीनामप्येतन्निग्रहस्थानभेदत्वं केचिदाहुः; तदयुक्तम्, सदभिधानदशायां तेषां विद्यमानानामप्यनिग्रहत्वात्, असदभिधानदशायामवचनदशायां च तयोरेव दूषण्त्वात् । तद्वर्जननियमकथायां तु तेषां भवत्येव निग्रहस्थानता । तदा चान्यत्रैव तेषामन्तर्भावः । अवचनसमकालभाविनस्त्वेते केवलप्रतिभामूलव्यथालिङ्गत्वादनृशंसबुद्धीनामप्रतिभानिग्रहस्थानाभियोगं निरुन्धते, तैरेव च सभ्यानां तत्पराजयव्यक्तेः । तदहंकारखण्डनं च तैरेव प्रथमदार्शितैः । वचनावसरे तूष्णीको न भवेदिति मर्यादा । अप्रतिभासहेतुरनेकविधो द्रष्टव्यः ॥