36 अज्ञानम्

मूलम् - 2.2.24

॥ अज्ञानम् ॥
वादिना त्रिभङ्ग्यन्तराभिहिते सभ्येष्वन्यतमेनापि विदितार्थे वचने मया न ज्ञायत इति वाद्यन्तरस्य यद्वचनं तत् तस्याज्ञानम् । वैशद्याय तस्यैवार्थस्य वचनव्यक्त्यन्तरेण प्रतिपादनं युक्तमिति सूचयितुं त्रिभङ्ग्यन्तरोक्तिः । वादे तु स्वाज्ञानाविष्करणं न दोषः । अत एव यावत्प्रतिवादिबोधं तत्राभिधेयम् । परस्याविज्ञातार्थारोपहेतुत्वादार्जवादेर्वा स्वाज्ञानाविष्करणम् । जल्पवितण्डयोः स्वाज्ञानं नाविष्€कुर्यादिति संक्षेपः ॥