मूलम् - 2.2.23
॥ अननुभाषणम् ॥
त्रिभङ्ग्यन्तरोक्तस्य प्राश्निकविदितस्यार्थस्यानुद्भातितस्वाज्ञानेन यथोचितानुभाषणाभावः अननुभाषणम् । तच्च दूष्यैकदेशानुभाषणतदधिकानुभाषणविपरीतानुभाषणकेवलोत्तरमौनभेदात् पञ्चविधम् । अधिकानुभाषणं तु अधिकाख्यनिग्रहस्थानमित्येके । दूषणमात्रस्यैव परतिरस्कारार्थत्वाभिमानादप्रतिभानाद्वा अस्योत्थानम् । दूष्यमंशमेव तेनैव शब्देन शब्दान्तरेण वा अनुवदेद्यथानिमयं नियमकथायामिति संग्रहः ॥