34 पुनरुक्तम्

मूलम् - 2.2.22

॥ पुनरुक्तम् ॥
स्वोक्तिवशात् परेण शब्दतोर्थतो वा प्रतिपन्नस्यैव निष्प्रयोजनं वचनं पुनरुक्तम् । तद््द्विधा-अर्थपुनरुक्तम्, आक्षेपपुनरुक्तं चेति । प्रथमम् अनित्यः शब्दः, विनाशी ध्वनिरित्यादि । द्वितीयं तु विवादपदं क्षित्यादिकं सकर्तृकमित्यादि । विवादपदमिति हि धर्मिनिर्देशे विवादस्यानेकप्रकारत्वेपि साध्यविशेषनिर्देशाद्धर्मिविशेषोप्यर्थसिद्ध एव । एवं देवदत्तो गृहेस्ति बहिर्नास्तीत्याद्यपि । नियमकथायामेवास्य दोषत्वम्, अन्यदा विशदप्रतीत्यर्थमुपयोगात् ॥
अन्ये तु-शब्दपुनरुक्तमिति भेदमाहुः; यथा-शब्दो नित्यः शब्दो नित्य इति; तदसत्, एकार्थत्वे अर्थपुनरुक्तत्वात्, भिन्नार्थत्वे त्वदोषत्वात् । भिन्नार्थोपि स शब्दो न वाच्य इति नियमकथायामस्यावकाश इति चेत्, हन्त ! तर्हि वर्णस्वरादिपुनरुक्तमपि भेदेन पठनीयम्, तत्रापि धृष्टानां नियमसंभवादिति । सकृदुक्तौ परेण सम्यैर्वा यदप्रतिपन्नम्, तत्र तदपेक्षया पुनरभिधानं युक्तम् । तत्रापि त्रिरभिधानमित्येव नियमः, आत्मीयानभिधानमतिमान्द्यादिशङ्कया तावन्मात्रस्य सभ्यैरपेक्षणोपपत्तेः । ततः परं तु वचनदोषादेरेव सभ्यैरवधारणान्न भूयस्तदपेक्षा । यत्र तु प्रतिवादिसंमत्या वक्रानुमानादिप्रयोगः, तत्र वचनद्राधीयस्त्ववक्रिमादिभिरेव दुरवधरार्थतया यदि भूयोपि सम्भाकाङ्क्षा, तदायावत्तदाकाङ्क्षाशमनमस्त्वभिधानम्; अत एव परिषदनुज्ञोपलक्षणं त्रिरभिधानमिति केचिदाचार्याः । विशदीकरणाभिसंध्यादिभिरस्योत्थानम् । निष्प्रयोजनं न पुनर्वदेदिति रहस्यम् ॥