33 अधिकम्

मूलम् - 2.2.21

॥ अधिकम् ॥
अन्वितमुपयुक्तमपुनरुक्तं कृतकरतया स्वसिद्धान्तनिर्णीतमधिकम् । तत्र हेत्वधिकं यथा-धूमवत्त्वादालेकवत्त्वादित्यादि । दृष्टान्ताधिकं यथा-मठवन्महानसवदित्यादि । व्याप्त्यधिकं यथा-अन्वयव्यतिरेकयोर्द्वयोरप्यभिधानम् । तर्काधिकं यथा-एकविषये अनेकानिष्टप्रसञ्जनम् । दूषणाधिकं यथा-असिद्धोयं हेतुर्विरुद्धश्चेत्यादि । सामान्यत आदिशब्दोपादानेप्यधिकत्वमेव; यथा-धूमवत्त्वादेः, महानसादिवदित्यादि । एवमधिकतया स्वसिद्धान्तनिर्णीतानामवयवानामपि कथनं संगृहीतम्; यथा-सौगतादेस्त्र्यवयवप्रयोगादि । पुनरुक्तिर्वा तत्र, तथैव तत्सिद्धान्तादिति । हेतुदृष्टान्तव्याप्तितर्काद्याधिकं तु वादे वस्तुतो न दूषणम्, येन केनापि तत्त्वनिर्णयाभिसंधेः । जल्पादौ यावत्प्रतिभासमनेकाभिधाननियमे तु भूषणमपि । यावत्संभवमनेका भिधानं चासर्वज्ञेनाशक्यमिति प्रायशो न तथा नियमः संभवति । अनयोश्च न्यूनाधिकयोरुद्भावितयोरभ्युपगमेपसिद्धान्तो वाच्यः । अवयवाधिकादौ नित्यमपसिद्धान्तत्वं केचिदाहुः; तदसत्, अवयवन्यूनादावपि प्रसङ्गात् । न्यूने विरुद्धं नोक्तमिति चेन्न, अनैकान्तिकादिप्रयोगेप्यपसिद्धान्तप्रसङ्गात् । तत्र विरुद्धं नाभ्युपगम्यत इति चेन्न, अधिकावयवप्रयोगेपि समत्वात् । वचनलिङ्गादिभिर्वक्तुरभिप्रायः कल्प्यत इति चेन्न, अपरामर्शादिना€पि प्रयोगसंभवात्, पूर्वोक्तात् प्रसङ्गाच्च । सर्वतोमुखी साध्यसिद्धिः स्थेयसी स्यादिति संप्लववादसंस्कारादेरधिकस्योत्थानम् । साध्यसिद्ध्यपेक्षितमात्रं साधकमुपाददीतेति समयः ॥