32 न्यूनम्

मूलम् - 2.2.20

॥ न्यूनम् ॥
वक्तव्यत्वेन स्वसिद्धान्तनिर्णीतस्यैकदेशकथनं न्यूनम्; यथा- पञ्चावयववादिनो नैयायिकस्य त्र्यवयवप्रयोगः, कुमारिलादेर्द्व्यव यवप्रयोग इत्याद्यवयवन्यूनम् । वादिनः स्वपक्षसाधनमनादृत्य परपक्षं दूषयितुमिच्छतो वादन्यूनम् । सभ्यसंवरणादिकमकृत्वा स्वपक्षं साधयतः कथारम्भन्यूनम् । न चात्र विपर्यासः, तस्य क्रमत्यागात्मकत्वात्, अत्र तु क्रमिण एव त्यागात् । यदि न्यूनत्वोद्भावने पश्चात् करिष्यामीति ब्रूयात्, तदा अस्तु विपर्यास इति । एवं यावत्संभवं विकल्पयतोपि संभावितकोट्यन्तरानुक्तौ विकल्पन्यूनत्वमाहुः । स्तम्भादलंबुद्ध्या वा अस्य संभवः । आत्मसिद्धान्तसद्धिं पूर्णं च वदेदित्यादेशः ॥