31 अर्थान्तरम्

मूलम् - 2.2.19

॥ अर्थान्तरम् ॥
प्रकृतानुपयुक्तवचनमर्थान्तरम्; यथा-क्षित्यादिकं सकर्तृकम्, प्रमेयत्वादित्युक्त्वा, स्वयमेव दूषणप्रतिभासे, प्रमाविषयः प्रमेयम्, तत्र च त्वप्रत्ययान्तं प्रमेयत्€वपदमित्यादि । एवं कुशकाशावलम्बनेन प्रकृतानन्वितराजवार्तावतरणादिकमपि । ईदृशानां स्वाज्ञानसंवरणार्थं परव्यामोहनार्थं च प्रयोगसंभवः । अन्वितमप्युपयुक्तमेव वदेदित्युपदेशः ॥