मूलम् - 2.2.18
॥ अविज्ञातार्थम् ॥
त्रिभङ्ग्यन्तराभिधानेपि प्राश्निकप्रतिवादिष्वन्यतमेनाप्यज्ञातार्थं वचनमविज्ञातार्थम् । तच्चाप्रसिद्धप्रयोगस्वसिद्धान्तमात्रसिद्धप्रयोगार्थान्तरसाधारणप्रयोगादिभेदाद्बहुविधम् । तत्राप्रसिद्धप्रयोगो यथा-अहार्यो वीतिहोत्रवानित्यादिः । स्वसिद्धान्तमात्रसिद्धप्रयागो यथा-पञ्चस्कन्धद्वादशायतनादिप्रयोगः सौगतानाम्; अस्तिकायपर्यायपुद्गलादिप्रयोगो दिगम्बराणाम् ; यतमानव्यतिरेकैकेन्द्रियवशीकारसंज्ञादिप्रयोगः पातञ्जलानाम्; स्फ्यकपालादिप्रयोगो मीमांसकानाम्; सुतजा विश्वरूपः पृथग्वर्त्मा, बहुलः, रयिः, प्रतिष्ठेति त्रय्यन्तविदामित्यादि । साधारणप्रयोगो यथा-महीभृत् लोहिताश्ववानित्यादिः । केवलयोगमूलप्रयोगो यथा-पयःपयोधिसंभवाकान्तपदवैशेषिकगुणः उत्तरावध्युपलक्षितवस्तुसत्तावान्, पूर्वान्तोपलक्षितवस्तुसत्तायोगित्वात्, दण्डादिव्यापारनिष्पाद्यावयवसंयोगासमवायिकारणद्रव्यवदित्यादिः । स्वोक्तिदोषतिरस्करणश्रद्धया प्रतिवादिव्याकुलीकरणाद्याभिसंधेर्वा संभवोस्य । सम्यप्रसिद्धैर्विवक्षितासाधारणैरगमितयोगैर्निरस्तग्रस्तादिदोषैः पदैर्व्याहरेदिति सारम् । प्रतिवाद्यभ्युपगमे तु प्रहेलिकाप्राया अपि व्यवहाराः प्रवर्तन्ते । अत एव हि दृप्तैर्महाविद्यादिरीतीनां प्रयोगोभ्युपगम्यत इति ॥