29 अप्राप्तकालम्

मूलम् - 2.2.17

॥ अप्राप्तकालम् ॥
विवक्षितक्रमस्य विपर्यस्तकरणमप्राप्तकालम्; यथा-सभ्यानुविधेयसंवरणादिकमकृत्वा प्रयोगे वादारम्भविपर्यासः, प्रतिज्ञाहेतुदृष्टान्तादेर्विपर्यासेन वचने अवयवविपर्यासः, अनित्यः शब्द इत्यादाववयवांशविपर्यासः, तर्कमभिधाय प्रयोगे अङ्गङ्गिविपर्यासः, वाद्युक्तमशेषमदूषयित्वा प्रतिवादिना स्वपक्षसाधने वादविपर्यास इत्यादि । वाक्यस्य परप्रत्यायनार्थत्वाद्विपर्यासेपि परप्रत्ययसंभवाभिमानात् तदुक्तिसंभवः ।
नियमकथायामभ्युपगतक्रमातिक्रमेण न कुर्यादिति रहस्यम् । अनित्यः शब्द इत्यादिप्रयोगस्तु विपर्यासेपि शीघ्रान्वयप्रतिपत्तेरनियमकथायां वादे च सोढव्य इत्यादि ॥