मूलम् - 2.2.16
॥ अनन्वितम् ॥
उचितान्वयशून्यमनन्वितम् । तद्द्विधा-पदवाक्यभेदात्; यथा-स्तम्भः कुम्भः कुड्यं कुसूलमित्यादि । यथा च-पर्वता वह्निमान् महाह्रदो बकोटवानित्यादि । व्यवहितान्वयमप्यनन्वयम्, प्रतीत्यभावाविशेषात् । न चास्य विपर्याससंकरः, पद्यनियमकथायां विपर्यासस्य क्षन्तव्यत्वेपि व्यवहितान्वयस्य दूषणत्वात्, विपर्यासे व्यवहितान्वयतवाभावात् । संभावितसमस्तान्वयप्रकारविकल्पे तदनभ्युपगन्तुर्विकल्पविशेषानन्वय इत्याहुः ॥
नन्वाकाङ्क्षासत्तियोगयताभिरन्वयः । तासामेकैकाभावेप्यनन्वय इति सिद्धम् । ततश्च येषु वाक्येष्वाकाङ्क्षासत्त्योरभावः, तत्रानन्वितनिग्रहस्थानावकाशः ; यत्र तु योग्यताविरहादनन्वयः, तत्र विरोधनिग्रहस्थानमेव स्यात्, विरोधमन्तरेणायोग्यत्वस्यापादयितुमशक्यत्वादिति चेत्, अस्त्वेवम्; तथापि पृथग्विषयलाभान्निग्रहस्थानद्वयं सिद्धम् । नन्वनन्वितस्यास्ति पृथग्विषयः, तथापि विरोधस्य सर्वस्यायोग्यतयैव क्रोडीकारान्न पृथग्विषयलाभ इति चेत्, सत्यम्; तथाप्यन्वयायोग्यतानिमित्तस्य विरोधस्यैवोद्भटत्वात् तस्यैवोद्भाव्यत्वम् । न चैवमाकाङ्क्षासत्तिविरहयोरपि पृथगुद्भाव्यत्वम्, तयोर्द्वयोरप्यन्वयप्रतीतेरेवानुदयात् । इह तु शब्दस्वरसतो जातस्यान्वयबोधस्य विरोधेन बाधादिति । यत्र तु विप्रलम्भकादिवाक्ये प्रतिवादिवाक्ये च सामान्यतस्ततद्वस्तुस्वभावप्रयुक्तविरोधाभावेन दृढोदितेप्यन्वयबोधे प्रमाणान्तरपरामर्शाद्बाधः, तत्र तु तत्तत्प्रमाणबलाद्विशेषतः सत्यपि विरोधे तत्तत्प्रमाणबाध एवोद्भाव्यः, तस्यैव तत्रोपजीव्यत्वादिति ॥