27 अवाचकम्

मूलम् - 2.2.15

॥ अवाचकम् ॥
शब्दशास्त्रविरुद्धस्वरूपमवाचकम्; यथा-कृत्तद्धितसमासाख्यातलकारात्मनेपदपरस्मैपदसकर्मकाकर्मकलिङ्गवचनविभक्तिवर्णादेशागमप्रभृतीनां विपर्यासन्यूनातिरेकादयः । उदाहरणानि त्वशिक्षितानां वचनान्येव द्रष्टव्यानि । अपशब्दमपि सुशब्दयिष्यामीति वैयाकरणत्वगर्वादशिक्षितत्वानवधानादिभिश्चास्योक्तिसंभवः । वक्तव्यतयाभ्युपगतभाषामूलव्याकरणसिद्धमेव नियमकथायां भाषितव्यमिति रहस्यम् । उक्तं च प्रज्ञापरित्राणे-
“साधुगीर्वाणवाण्यैव प्रयोगनियमे कृते ।
अपशब्दान्यभाषाभिर्भाषणं चापि दूषणम् ॥
अकृते नियमे सर्वभाषाभिरपि भाषणम्् ।
स्खलने च पुनः साधुशब्दग्रहणमिष्यते ॥ " इति ।
एवं सत्ययमपि नियमविरोध इति चेत्, सत्यम्; तथापि स्वतोपशब्दस्य दूषणत्वसंभवादुपजीव्यत्वाच्चास्यापि पृथग्व्यपदेशः । “सर्वभाषाभिरपि” इत्युभयाभ्युपगतैकापभ्रंशभाषाविषयम्, न पुनस्तदा तदा यथेच्छमव्यवस्थितभाषाभिप्रायम्, तथा सति परानभ्यस्तभाषयापि भाषणप्रसङ्गे परस्परवार्तानभिज्ञतया वादिनोर्निष्फलपरिश्रमत्वप्रसङ्गात् । अत उभयाभ्€यस्तता नियमपरिगृहीतयैव भाषया व्यवहरेदित्यर्थः । इदं च निग्रहस्थानं सर्वकक्ष्यासंभावितं तदैवोद्भाव्यं च ॥