मूलम् - 2.2.14
॥ सिद्धान्तः ॥
अथ कः सिद्धान्तः ? प्रामाणिक इत्यभ्युपगतोर्थः ।
अभिमानैकमूलत्वादन्योन्यं च विरोधतः ।
न कश्चिद्यदि सिद्धान्तो नैवं तत्सिद्ध्यसिद्धितः ।
सिद्धान्तभाव एवायं प्रामाणिक इतीष्यते ।
नेष्यते वा द्विधाप्येवं सिद्धः सिद्धान्तसंग्रहः ॥
स त्रिविधः-सर्वतन्त्रप्रतितन्त्राभ्युपगमसिद्धान्तभेदात् । यमन्तरेण वादव्यवहारोपि न घटते, स सर्वाभ्युपगतः सर्वतन्त्रसिद्धान्तः; यथा-प्रमाणात् प्रमेयसिद्धिरित्यादि । अभ्युपगतो हि माध्यमिकादिभिरपि सांवृतादिसंज्ञातः प्रमाणप्रमेयव्यवहारः । स्वतन्त्र एव सिद्धः परतन्त्रैर्निषिद्धः प्रतितन्त्रसिद्धान्तः; यथा- वैयाकरणस्य स्फोटः; सौगतस्य क्षणभङ्गः, दिगम्बरस्य सप्तभङ्गी, कौमारिलादेः शब्दभावनादिलिङर्थता, त्रय्यन्तविदामीशितुः सर्वशरीरित्वादि । अमी च सिद्धान्तान्तरानभ्युपगमप्रसिद्धिदशायामेव प्रतितन्त्राः; यदि कश्चिदन्योपि तीर्थकरस्तानेवार्थानभ्युपगच्छेत्, तदा तेषामभ्युपगमसिद्धान्तत्वम् । न चापूर्वास्तीर्थकरा न भवन्तीति नियमः, तथात्वे प्राथमिकैकसिद्धान्तपरिशेषप्रसङ्गात् । न च तैस्तेर्था नाभ्युपगन्तव्या इति वाच्यम्, आवापोद्वापभेदानामिदानीमपि दर्शनात्, अभिमानमूलत्वाच्च सिद्धान्तानामिति । अव्यापकः स्वतन्त्रस्य तन्त्रान्तरस्य च साधारणोभ्युपगमसिद्धान्तः; यथा-नैयायिकादीनां सामान्यविशेषसमवायादिः, सांख्यादीनां भेदाभेदादिः, सौगतादीनां प्रपञ्चमिथ्यात्वादिः । परतन्त्रे साधितः स्वतन्त्रे च समाश्रित इति वा, तन्त्रान्तरसिद्धसद्भावस्य वस्तुनो विशेषपरीक्षणमिति वा केचिदाहुः । अत्र स्वतन्त्रपरतन्त्रसाधारण्यमेव निष्कृष्टलक्षणं भवति ॥
केचित्तु कस्य चित् साधने अनुषङ्गसिद्धोन्य आधारसिद्धान्त इति चतुर्धा विभागमाहुः; यथा-क्षित्यादेः सकर्तृकत्वसिद्धावीश्वरसिद्धिरित्यादि । अक्षपादश्च सिद्धान्तचातुर्विध्यं प्रकृत्याह– “यत्सिद्धावन्यप्रकरणसिद्धिः सोधिकरणसिद्धान्तः” इति; तदयुक्तम्, तस्य सर्वैरभ्युपगमे सर्वतन्त्रसिद्धान्तत्वात्, स्वतन्त्रमात्रसिद्धौ प्रतितन्त्रत्वात्, परैरपि कैश्चिदभ्युपगमेभ्युपगमसिद्धान्तत्वात् । केवलं त्वयमस्य सिद्धान्त इति निर्णये अनुषङ्गसिद्धिर्लिङ्गं भवतीत्येतावता यदि पृथगभिधानम्, काममभिधीयतामिति ॥