25 अपसिद्धान्तः

मूलम् - 2.2.13

॥ अपसिद्धान्तः ॥
स्वाभ्युपगतसिद्धान्तविरुद्धाभ्युपगमोपसिद्धान्तः; यथा- सांख्यस्य आत्मा कर्तेति; वैशेषिकस्य आत्मा चिद्रूप इत्यादि । एवं स्वस्वसैद्धान्तिकानभ्युपगतं प्रमाणं पुरस्कुर्वन्नपि वस्तुतस्तत्प्रामाण्ये तदभावेप्यनेनैव निग्राह्यः, तत्प्रमाणत्वे वक्तव्यदूषणान्तराभावात्, तदप्रमाणत्वे तद्धेतुसमर्थनप्रयासतोप्युद्भटस्याभ्युपगमनियतस्यास्यैवोद्भावयितुमुचितत्वात् ।
यस्त्वनुमानादिकमर्थापत्त्यादिशब्दमात्रेण व्यपदिशति, न स निग्रहीतव्यः । अभ्युपगततदैक्यस्य पर्यायपाठे विरोधाभावेन निरपराधत्वात्; अन्यथातिप्रसङ्गात् । अथ चेत् स एवावष्टम्भेन पृष्टः पृथक्त्वं प्रतिब्रूयात्, तथाप्यपसिद्धान्तावतारः । एवं कौमारिलादेरभ्युपगतबहिर्भावस्यार्थापत्त्यादेरन्€तर्भावानुज्ञानेपि पूर्ववत् तद्याथार्थ्यायाथार्थ्ययोरयमेव निग्रहः । अत्र स्वाभ्युपगतसिद्धान्तविरुद्धकरणमात्रव्यवच्छेदायाभ्युपगमशब्दः । समस्ति हि वस्तुतो निग्रहस्थानान्तरेष्वपि स्वसिद्धान्तविरुद्धाचरणम्, परिहृतसर्वापराधेन कथा प्रवर्तनीयेति सर्वसैद्धान्तिकसंमतत्वात् । न चैतावता सर्वेषामपि निग्रहस्थानानामपसिद्धान्ततेति । नन्वेवमपि अपसिद्धान्त उक्तविरोधेन्तर्भावनीयः, एतत्सिद्धान्तवर्त्मना व्यवहरिष्यामीति कथारम्भं प्रतिज्ञाय तत्पर्यवसानात् पूर्वं तद्विरुद्धभाषणात्; सत्यम्; त्वत्परिगृहीतसिद्धान्तविरुद्धोयमर्थस्त्वयाभ्युपगम्यते; अतः पूर्वोक्तसिद्धान्ताभ्युपगमवाक्यविरोध इति वक्तव्यम्; तत्र प्रथमपर्वणि स्थितस्योपजीव्यस्योद्भटस्य सिद्धान्तविरोधस्यैवोद्भाव्यत्वमुचितमिति पृथग्व्यपदेशः । स्वस्यापि तत्तच्छास्त्रकर्तृसाम्याभिमानात्, प्रमादादेश्चास्य संभवः । अतीर्थकरः स्वस्वाभ्युपगतसिद्धान्तविरुद्धं नाङ्गीकुर्यादिति रहस्यम् ॥
कथं तर्ह्येकस्मिन्नेव दर्शने मतभेदप्रवृत्तिरिति चेत्, तीर्थकरवाक्यानां तत्तत्परत्वाभिमानात् । कथं तर्हि वार्तिकादिसृष्टिरिति चेत्, स्वतन्त्रस्य सतोभ्युपगमैकदेशस्य स्वयमंशतस्तीर्थकरत्वात् । अस्त्वेवमपसिद्धान्तेपीति चेन्न, पूर्वमेव तथाभ्युपगमाभावात् । अभ्युपगमे वा को नाम तत्रापसिद्धान्तमुद्भावयेदिति । अस्य प्रायशो द्वितीयादिकक्ष्यासु संभवः । पृथुकव्यवहारेषु प्रथमकक्ष्यायामपि । द्वितीयकक्ष्यायां तु स्वसिद्धान्तविरुद्धसाधनेपि सिद्धसाधनत्वोद्धाटनादस्त्येव तत्संभवः ॥