24 उक्तविरोधः

मूलम् - 2.2.12

॥उक्तविरोधः॥
स्वोक्तस्य स्वेनैव विरुद्धकरणमुक्तविरोधः । स द्विधा-पदवाक्यभेदात् । पदविरोधो यथा-ईश्वरोनीश्वर इत्यादि । वाक्यविरोधो यथा-ईश्वरः सर्वज्ञ एव; तथापि स्वज्ञानमेकं न जानातीत्यादि । स चायमवान्तरभेदाद्बहुविधः । तत्र प्रतिज्ञापदद्वयविरोधो यथा-ईश्वरो न सर्वज्ञ इत्यादि । पक्षहेतुविरोधो यथा- ईर्श्वरः कर्मवश्यः, जीवत्वादित्यादि । साध्यहेतुविरोधो यथा- क्षित्यादिकं सकर्तृकम्, अकर्तृकत्वादित्यादि । स्ववचनविरोधो यथा-यावज्जीवमहं मौनी मूको वेत्यादि । स्वक्रियाविरोधो यथा-सर्वदा निर्व्यापारोहमित्यादि । एवम्-न किंचिदहं याचे, अतो मेर्था दीयन्ताम्; अमृतं पीतवानहम्, तथापि मे तद्वर्णतः पलितमासीत्; न कश्चिन्मे सिद्धान्तः, तथापि शून्यं चिन्मात्रं वा तत्त्वम् ; अवेद्यं ब्रह्म, तथापि तज्ज्ञानान्मोक्षः; न किंचित् कारणं कार्यं वा, तथापि भूतपरिणतिविशेषाच्चैतन्यमित्यादीनि तत्तत्सैद्धान्तिकानां व्याहतभाषितान्यवगन्तव्यानि । एषु चोक्तस्य क्वचिच्छाब्दो विरोधः, क्वचिदार्थः । अभ्युपगतनियमविरुद्धाचरणमप्यत्रैवान्तर्भवति; तद्यथा-संस्कृतमभ्युपगम्य अपभ्रंशेन भाषणम्; कृत्स्नानुभाषणाद्यभ्युपगमे दूष्यमात्रानुभाषणादिकम्; हस्तचेष्टादिवर्जनमभ्युपगम्य तत्करणमित्यादि । एवं शास्त्रान्तरपठितानि विसन्धियतिभङ्गभिन्नवृत्तनेयार्थत्वादीन्यपि तत्तन्नियमापेक्षया दूषणान्यत्रैवान्तर्भवन्ति । जैनकौमारिलादिनयेन विरोधतिरस्कारादनवधानादेश्चास्य संभवः । स्ववचनस्वाभ्युपगमाविरुद्धमेवाचरेदिति रहस्यम् । अयं प्रथमादिकक्ष्याभावी तदनन्तरकक्ष्योद्भाव्यः ॥