23 उक्तापलापः

मूलम् - 2.2.11

॥ उक्तापलापः ॥
स्वयमुक्तस्य सभ्यादिविदितस्य परेण दूषितस्य निगूहनमुक्तापलापः । स च बहुविधः- न मयैवमुक्तमिति वा, अन्यदेव मयोक्तमिति वा, त्वमेवोक्त्वा मय्यारोपयसीति वा, त्वदुक्तमन्योक्तं वा मयानूदितमिति वा, पार्श्वस्थेनैवमुक्तमिति वा, अनुक्तमप्रक्रान्तमेव त्वया भ्रान्तिवशादवगतमिति वा, अशरीरिवाक्यमिदमिति वा । ईदृशस्यापलापस्य संभवहेतुः पश्यतोहरेषु शिक्षणीयः । प्रतिज्ञाहेतुदृष्टान्तप्रत्यक्षागमाद्यपलपनीयभेदादयमपि बहुविषयः पूर्ववदुदाहरणीयः । नियमपरिहरणीयहस्तचेष्टाद्यपह्नवसंग्रहाय कृतापलाप इति लक्ष्यलक्षणसिद्धिः । स्पष्टानुष्ठितनिह्नवे च समर्थनीयान्तराभावात् परिषदनुविधेयावेव स्थेयतया शरणम्, विश्वसाक्षिणां चतुर्दशानामपि तूष्णींभावात् । एवं सार्वलौकिकप्रतीत्यपह्नवेपि । उक्तं च नारायणार्यैर्भगवद्गीताव्याख्याने-
“प्रसिद्धमपि विज्ञानं वादे यो नाम निह्नुते ।
स सदस्यैर्नियन्तव्यो व्यवस्था नान्यथा यतः ॥” इति ॥
सभ्यादिविदितमुक्तं कृतं वा नापलपेदिति रहस्यम् । अपलापमेव प्रतिज्ञासंन्यासशब्देनाक्षपाद उपचचार; तदिह हानिसंन्यासशब्दयोरैकार्थ्यभ्रमहेतुतया नाद्रियामहे । अत्रापि सदपलापे पूर्ववत् पर्यनुयोज्योपेक्षणसध्रीचीनता । एतानि त्रीण्यपि निग्रहस्थानानि तृतीयादिकक्ष्याभावीनि तदुत्तरकक्ष्योद्भाव्यानि ॥