मूलम् - 2.2.10
॥ उक्तविशेषणम् ॥
अविशेषितपूर्वोक्ते दूषिते, तद्विशेषणनिक्षेप उक्तविशेषणम् । अविशिष्टपरित्यागादेतदपि हानिरेवेति चेन्नि, अविशिष्टत्वस्यानुक्तत्वात्, उक्तमात्रस्य चापरित्यागात् । साध्यसाधकांशविशेषणभेदादेतत् प्रतिज्ञान्तरहेत्वन्तरसंज्ञं निग्रहस्थानद्वयमक्षपादेन पठितम्; तदयुक्तम्, सामान्यसंग्रहस्य दृष्टत्वात्; अन्यथा हानिरपि तथैव प्रतिज्ञाहानिर्हेतुहानिरिति निग्रहस्थानद्वयं स्यात्, अविशेषात् । उक्तं च हेत्वन्तरं पृथगभिदधानैरपि वरदविष्णुमिश्रैः-
“पक्षदृष्टान्तहेत्वादिदूषणे कथिते सति ।
पुनर्विशेषणादानं प्रतिज्ञान्तरमिष्यते ॥” इति ॥
द्विविधं चैतत्-सामान्यतो विशेषतश्चेति; यथा-अनित्यः शब्दः प्रत्यक्षत्वादिति वैशेषिकेण प्रयुक्ते, सामान्यादिभिरनैकान्तिकत्वे मीमांसकेनोद्भाविते, अस्तु तर्हि यत्किंचिद्विपक्षव्यावर्तकं विशेषणमिति सामान्यतः; अस्तु तर्हि जातिमत्त्वे सत्यस्मदादिप्रत्यक्षत्वादिति इति विशेषतः । इदमपि पक्षसाध्यहेतुदृष्टान्तप्रत्यक्षागमादिरूपविशेष्यभेदाद्बहुविधम् । तत्र पक्षविशेषणं यथा- अनित्यः शब्द इत्युक्ते मीमांसकेन अंशतः सिद्धसाधनत्वाभिधाने, तर्हि वर्णात्मकः शब्द इत्यादि । साध्यविशेषणं यथा- क्षित्यादिकं प्रयत्नवत्पूर्वकमित्युक्ते प्राचीनादृष्टसाधकप्रयत्नवज्जीवपूर्वकतामात्रेण सिद्धसाधनत्वेभिहिते, अस्तु तर्हि साक्षादुपादानादिगोचरज्ञानचिकीर्षाप्रयत्नवत्पूर्वकमिति इति । हेतुविशेषणं प्रागुदाहृतम् । दृष्टान्तविशेषणं यथा-यत् सत् तत् क्षणिकम्; यथा-घट इति बौद्धेनोक्ते साध्यविकलतया प्रत्युक्ते, अस्तु तर्हि कुर्वत्क्षणावच्छिन्नो घट इति । प्रत्यक्षविशेषणं यथा-भावरूपाज्ञानम् अन्धकारादिवत् सर्वलोकप्रत्यक्षमित्यद्वैतिनोक्तेबाह्यान्तरप्रत्यक्षविकल्पानुपपत्त्या दूषिते; अस्तु तर्हि साक्षिप्रत्यक्षमन्यदेवात्र
प्रमाणमित्यादि । एवमुदाहरणान्तराण्यपि चिन्त्यानि । निर्विशेषणस्यैव दोषः, विशिष्टे तु स नापततीति व्यवसायादुक्तविशेषणसंभवः । प्रागेव पुष्कलं वदेत् । अपुष्कलोक्तं तु जल्पवितण्डयोस्तात्पर्यभेदादिना निर्वहेत्, न तु विशेषयेदिति रहस्यम् । सतो हानौ विशेषणे च पर्यनुयोज्योपेक्षणसध्रीचीनमिदं निग्रहस्थानद्वयमुद्भाव्यम् । न च तथा सति स्वदोषोद्भावनं दोषः, व्यामोहनार्थं प्रत्युक्तमसदप्यनेन न ज्ञातमित्यवष्टम्भविजयावहत्वात् । दूषणाधिक्यं तु न सर्वदा दोष इति ॥