मूलम् - 2.2.9
॥ उक्तहानिः ॥
कथायां स्वोक्ते परेण दूषिते स्वेनैव तत्परित्याग उक्तहानिः । सा द्विविधा-शब्दतोर्थतशच । यद्येतद्दुष्टम्, तर्हिं त्यक्तमिदं मया इत्यादिः शब्दतः, अन्यत् तर्ह्युपादीयते इत्यादिस्त्वर्थतः । एषा च प्रतिज्ञाहेतुदृष्टान्तप्रत्यक्षागमादित्याज्यभेदात् प्रतिज्ञाहानिहेतुहान्यादिभेदं भजते । तत्र प्रतिज्ञाहानिर्यथा- नित्यः शब्द इति कैवल्यकथकेनोक्ते अपसिद्धान्तेन दूषिते, तर्हि अनित्योस्त्वित्यादि । हेतुहानिर्यथा-अनित्यः शब्दः प्रत्यक्षत्वादित्युक्ते अनैकान्तिकत्वेन प्रत्युक्ते, तर्हि त्यक्तम्; अस्तु कृतकत्वादित्यादि । तत्रैव अस्तु सामान्यतोप्यन्यद्व्यापकं साधनमित्यादिवचने प्रतिज्ञाहान्यादि । दृष्टान्तहानिर्यथा- तत्रैव सामान्यवदित्युक्ते साध्यसाधनविकलतया दूषिते, तर्हि घटो दृष्टान्त इत्यादि । एवं धर्मितद्विशेषणहेतुविशेषणदृष्टान्तविशेषणादेरपि हानिरूह्या । प्रत्यक्षहानिर्यथा-स्थिरः शब्दः प्रत्यभिज्ञानादित्युक्ते भ्रान्ततुल्यत्वेन प्रत्युक्ते, अस्तु तर्हि अनुमानेन आगमेन वेत्यादि । आगमहानिर्यथा-सर्वं क्षणिकं सर्वज्ञेन तथाभिधानादिति सौगतेनोक्ते बुद्धस्यानाप्तत्वेन प्रत्युक्ते, अस्तु तर्हि सत्त्वानुमानादित्यादि । एवं हान्यन्तराण्यपि चिन्तनीयानि । वादे तु सदुक्तं निर्वाह्यम् । असदुक्तं तु त्याज्यमेव, तन्निर्वहणस्य तत्त्वनिर्णयानङ्गत्वात्, तद्विपर्ययस्य तु तादर्थ्यादिति । दुष्टस्य त्यागान्निर्दोषः स्यामिति संकल्पादुक्तहानिसंभवः । निर्वाह्यमेव वदेत् । जल्पवितण्डयोस्तु उक्तं च निर्वहेदिति रहस्यम् ॥