मूलम् - 2.2.8
॥ निग्रहस्थानसामान्यलक्षणम् ॥
कथायां स्वाश्रयस्य पराजयनिमित्तं निग्रहस्थानम् । तस्य तन्निमित्तत्वं तत्त्वाप्रतिपत्तिसूचनेन । तत्त्वाप्रतिपत्तिश्च अप्रतिपत्तिविप्रतिपत्तिप्रकारा, प्रतिपत्त्यभावे विपरीतप्रतिपत्तौ च तत्त्वाप्रतिपत्तेरविशिष्टत्वात् । ततश्च तदुभयसूचनान्निग्रहस्थानद्वैविध्यम् । कर्तव्याकरणमकर्तव्यकरणमिति वा । त्रेधा च कश्चित् संग्रहः- वक्तव्यानुक्तिः, उक्तिदूषणम्, उक्तार्थदूषणं चेति । एतदवान्तरभेदान्निग्रहस्थानवैचित्र्यम् । तथाहि-उक्तहानिः, उक्तविशेषणम्, उक्तापलापः, उक्तविरोधः, अपसिद्धान्तः, अवाचकम्, अनन्वितम्, पुनरुक्तम्, अप्राप्तकालम्, अविज्ञातार्थम्, अर्थान्तरम्, न्यूनम्, अधिकम्, अननुभाषणम्, अज्ञानम्, अप्रतिभा, विक्षेपः, मतानुज्ञा, पर्यनुयोज्योपेक्षणम्, निरनुयोज्यानुयोगः, प्रमाणाभासाश्च बहुविधाः प्रत्येकं निग्रहस्थानानीति ॥