19 कथास्वरूपविवेकः

मूलम् - 2.2.7

॥ कथास्वरूपविवेकः ॥
तदेवमङ्गेषु चतुर्षु पञ्चसु वा सिद्धेषु, यथावलेपं नियमान्तरेषु कृतेषु अवहितेषु च सभ्यप्रतिवादिषु, तदभ्यनुज्ञातेन वादिना प्रथमं स्वसाध्यमुद्दिश्य तत्र विवक्षितः प्रत्यक्षादिरूपः प्रमाणविशेषो वाच्यः । प्रतिवाद्यापादितश्चाभास उद्धरणीयः । विपक्षे बाधकाभावादिप्रसङ्गे च तर्को वाच्यः । ये पुनः संक्षेपतो विस्तरतो वा
आभासोद्धारं तर्कप्रयोगं चावश्यंभाविनमाहुः, तैर्नूनम् “अस्मदवकरे कांस्यं नास्ति” इति लोकवादोनुसृतः; अनिष्टप्रसङ्गश्च, आभासोद्धारतर्कप्रयोगवाक्ययोरपि स्वयमेव दूषणोद्धारादेः कर्तव्यत्वप्रसङ्गात् । एवं तदुपर्यपीत्यनवस्था; प्रतिवादिनापि तत्तदनुभाषणपूर्वकं तत्र दूषणं वाच्यम् । ततश्चैवं परस्परवाक्यानुभाषणप्रतिक्षेपाभ्यामुक्तिप्रत्युक्तिपरंपरासिद्धेः ॥
अत्र व्यवहारस्य प्रतिज्ञासाधनदूषणनिर्णयरूपेण चतुष्पात्त्वम्, प्रथमद्वितीययोर्वादिनिष्पाद्यत्वम्, तृतीयस्य प्रतिवादिनिष्पाद्यत्वम्, तस्य च कदाचित् संप्रतिपत्त्यात्मकत्वम्, चतुर्थस्यापि वादिभ्यां सभ्यैर्वा कार्यत्वम्, प्रतिज्ञातविषये प्रत्यक्षानुमानागमेषु मनीषितस्य यथोचितमुपन्यासप्रकारः, प्रत्यक्षस्यासिद्ध्या दूषणे सदस्यैरेव निर्णेयत्वम्, लैङ्गिकस्यासिद्ध्या दूषणे तस्याप्यंशस्य प्रतिज्ञापूर्वकं साध्यत्वम्, प्रतिवादिना वादिना वा अनैकान्तिकत्वाद्युद्भावने कृते तेनैव तत्साध्यत्वम्, प्रत्यनुमाने समबलतया निरूपिते सति द्वयोरपि विजयाभावः, वैतण्डिकस्य तु तावतापि विजयः, प्रतिकक्ष्यं च वादिप्रतिवादिवचनयोर्लेखनीयत्वम्, छलजात्योरेकान्तविजयाभावेन त्याज्यत्वम्, कदाचिदवष्टम्भविजयावहत्वमात्रेण तत्त्वाध्यवसायसंरक्षकत्वम्, अन्यदन्यदपि विस्तरेण तत्त्वरत्नाकरे प्रत्यपादि । तदेवंविधेस्मिन् व्यवहारे निग्रहस्थानानि यथासंभवमाविर्भवन्ति । तानि च स्वनामधेयेन अर्थतो वा यथानियममुद्भाव्यानि ॥