मूलम् - 2.2.6
॥ निग्रहस्थाननियमः ॥
स्वावरसिकस्तु कथासु निग्रहस्थाननियम उच्यते । वादे तावत्-अपलापादिकं प्रायशो न संभवति । संभवदपि प्रतिज्ञान्तराज्ञानादिकमनुद्भाव्यम् । उद्भाव्यमप्यवाचकादि न कथाविच्छेदकम् । संप्रतिपत्त्या अनेकहेतुदृष्टान्तदूषणाद्यभिधानेपि न दोष इति । जल्पवितण्डयोस्तु-यथाभ्युपगतं सर्वे निग्रहाः ॥