मूलम् - 2.2.5
॥ कथाङ्गनिरूपणम् ॥
अथ कथाङ्गानि-सभ्यानुविधेयसंवरणम्, वादिप्रतिवादिनियमः, कथाविशेषव्यवस्था, निरूप्यनिर्णय इति चत्वार्येव । वरदविष्णुमिश्रैस्तु- “जल्पश्चतुरङ्गः; अङ्गानि वादिप्रतिवादिसभापतिप्राश्निकाः” इत्युक्तम् । वादे तु न सभ्यादिसंवरणनिर्बन्धोस्ति, अपलापादीनां प्रायशस्तत्रासंभवात्; वीतरागाः
शिष्यगुरुसब्रह्मचारिशिष्टश्रोत्रियश्रेयोर्थिनो हि तदधिकारिणः । सभ्यानां दैवादागतानां त्ववर्जनम् । अनुविधेयसंवरणं तु सर्वथानपेक्षितमेव, विजयफलप्रतिपादनाद्यर्थत्वादनुविधेयस्य । रागद्वेषरहिता अत्र्यवरा विषमसंख्याः सभ्याः स्युः, द्वैधे अधिकानां वचनस्य ग्राह्यत्वात् । एकोपि वा प्राज्ञतमः । ननु सिद्धान्तनियमोप्यवश्यापेक्षितः; तत् कथं चतुष्टयम् ? सत्यम्; निरूप्यनियम एव तस्यान्तर्भावादनुक्तिः । न हि तमन्तरेण स उपपद्यते । यत्र तु नानासिद्धान्तानुमतोर्थो निरूप्यते, तत्र व्यवहारविशेषनियमार्थं सिद्धान्तविशेषनियमोप्यस्तु ॥
केचित्तु-निग्रहसामस्त्यासामस्त्योद्भावनप्रतिज्ञानकथापर्यवसाननियमाभ्यां सह षडङ्गान्याहुः; तदयुक्तम्, इच्छाकल्पितत्वेनावश्यापेक्षितत्वाभावात्, अनित्यस्य चाङ्गत्वायोगात्; अन्यथातिप्रसङ्गात् । वादे तावत् कथा हि तत्त्वनिर्णयपर्यन्ता वा स्यात् अशक्तिपर्यन्ता वा; न तत्र नियमकृत्यम्; द्वयोः संप्रतिपत्तेरेव पर्यवसानमित्युक्तं भवति । जल्पवितण्डयोरपि निग्रहपर्यन्ता । अतस्तत्रापि किं नियमेन ?॥ उक्तं हि प्रज्ञापरित्राणे-
“निग्रहस्थानपर्यन्ता विजिगीषुकथा मता ।
तत्त्वनिर्णयपर्यन्तो वादः स्याच्च पुनः पुनः ॥
हेत्वाभासापसिद्धान्ताननुयोज्यानुयुक्तयः ।
दृश्यन्ते यत्र तत्रैव वादोवसितिमान् भवेत् ॥” इति ॥
यदि त्वेकस्मिन्नेव निग्रहे कथापर्यवसानमिति नियमो जल्पवितण्डाङ्गमङ्गीक्रियते; तर्हि एतयैव भाषया भाषितव्यम्, पद्यादिनियमेनाभिधेयम्, एतत्प्रमाणजीतीयं वाच्यम्, महाविद्यादिरीतिरपि ग्राह्या, लिखित्वैव निरूप्यम्, गगनसूचनभूतलविलेखनादिविकाराः परिहार्याः, मध्ये नान्येन संलपनीयमित्यादिनियमानामप्यङ्गत्वप्रसङ्गः ॥