मूलम् - 2.2.4
॥ कथानिरूपणम् ॥
विचारविषयगोचरो वादिप्रतिवादिवाक्यसंततिविशेषः कथा । सा द्विविधा-वीतरागकथा विजिगीषुकथा चेति । पूर्वो वाद इति सामान्यशब्देनैव विशेषतोपि निर्दिश्यते । सा चैवं न्यायतत्त्वे संयोगाधिकरणे लक्षिता- “परस्य स्वोपदेशन्यायेन निश्चितार्थो व्यवहारो वादः” इति । शिष्याचार्यव्यवहारवत् प्रमाणतर्काभिमानास्पदसाधननिश्चितार्थविषयो व्यवहारो वाद इत्यर्थः । तत्र स्वपक्षस्थापनं परपक्षदूषणमित्यत्वयवद्वयम् ॥
केचित्तु साधनसमर्थनदूषणसमर्थनादिभिः सह पञ्चावयवतामाहुः; तदयुक्तम्, स्वपक्षदूषणोद्धारतत्समर्थनादेरप्यत्वयवान्तरत्वप्रसङ्गात् । यदि स्वपक्षसाधनादौ तदन्तर्भाव इति न पृथग्गणना, तदा स्वपक्षस्थापनपरपक्षप्रतिक्षेपयोरेव सर्वान्तर्भाव इति तावत्येव गणनोचिता । अत्र च बुद्धिपूर्वदुष्टवचनानि न संभवन्ति, अन्यानि तूद्भावितान्यभ्युपगन्तव्यानि, तत्त्वनिर्णयाय प्रवृत्तत्वात् । विजिगीषुकथायां तु गत्यन्तरमलभमानस्य परव्यामोहनेनापि पाक्षिकविजयः समत्वं वा संभवेदिति बुद्धिपूर्वकदुष्टप्रयोगसंभवः । सा च द्विधा-जल्पो वितण्डेति । तत्रोभयपक्षोपन्यासतत्प्रतिक्षेपवती कथा जल्पः । वादिपक्षोपन्यासतत्प्रतिक्षेपमात्रवती कथा वितण्डा ॥
केचित्तु-वितण्डायामपि वीतरागविजिगीषुभेदाद्भेदमाहुः; तदयुक्तम्, वीतरागस्य परपक्षप्रतिक्षेपपर्यन्तव्यापाराभावे तत्त्वनिर्णयासिद्धेः । विजयस्तु तावतापि संभवत्येव, अभ्युपगमनियतत्वात् । वादे परपक्षस्य कालात्ययापदेशनिर्वाहे तु न पुनः स्वपक्षनिरूपणम् तेनैव तत्फलस्यापि सिद्धेः । न हि पुनस्तस्यैव प्रमाणस्य पाठे प्रयोजनम् । न च स्थापितस्वरूपादिमत् प्रमाणमनादृत्य मानान्तरमन्वेषणीयम् । न च नैरपेक्ष्येणोपरमाद्वितण्डात्वम्, अपेक्षायां सत्यां प्रतिवादिना स्वपक्षस्थापनस्यापि कर्तव्यत्वेन वैषम्यात् । जल्पे तूक्तिगुणदोषाभ्यामपि जपपराजयौ स्यातामिति कालात्ययापदेशायोपन्यस्तस्यापि प्रमाणस्य पुनः पाठाद्युपपत्तिः । आगमसिद्धा चेयं कथात्रयव्यवस्था, “वादजल्पवितण्डाभिः” इत्यादिवचनात् ॥
केचित्तु-वितण्डाद्वयमेव व्यत्यस्तं जल्प इति वदन्ति; तथापि तथैव नियमात् कथात्रयगणनं नानुपपन्नम् । उक्तं च जल्पवितण्डयोरपि लक्षणं संयोगाधिकरणे-“स्वपक्षप्रामाण्यप्रतिपक्षाप्रामाण्यनिश्चयार्थो व्यवहारो जल्पः । प्रतिपक्षाप्रामाण्यमात्रनिश्चयार्थव्यवहारो वितण्डा” इति । श्रीमद्गीताभाष्येपि-“वादः प्रवदतामहम्” इत्यत्र “जल्पवितण्डादि कुर्वतां तत्त्वनिर्णयाय प्रवृत्तो वादो यः, सोहम्” इति व्याख्यानात् कथात्रयं दर्शितम् । एतेन “विप्रं निर्जित्य वादतः” “न विगृह्य कथां कुर्यात्” इत्यादिभिर्जल्पवितण्डयोर्निषेधो विशिष्टविषय इति दर्शितम्, कदाचिद्बाह्यकुदृष्टिभङ्गाय द्वयोरपि कार्यत्वात् । तथा चाक्षपादसूत्रम्-“तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवत्” इति ॥