15 पञ्चावयवानियमनिरूपणम्

मूलम् - 2.2.3

॥ पञ्चावयवानियमनिरूपणम् ॥
एते पञ्चावयवाः प्रयोक्तव्या इति नैयायिकाः । उदाहरणान्तं तदाद्यं वा त्रितयं प्रयोक्तव्यमिति मीमांसकाः । उदाहरणोपनयावेवेति सौगताः । वयं त्वनियतं ब्रूमः, नियमवदनियमस्याप्याभिमानिकतया सिद्धान्तत्वोपपत्तेः । दृष्टश्चानियमेन भाष्यादिषु प्रयोगः-क्वचित् पञ्चावयवः, क्वचित् त्र्यवयवः, क्वचिदवयवकल्पनारहितः, क्वचिदेकव्याप्तिकः, क्वचिद्व्याप्तिद्ववयविशिष्ट इत्यादि । इदं च वादिनोः परस्परसंवादानुरूपयथाभिमतव्यवहाराभ्यनुज्ञालिङ्गम् । प्रतिवाद्यभिमतप्रस्थानेन व्यवहारमन्येपि केचिदिच्छन्ति, ‘पिशाचानां पिशाचभाषयैवोत्तरं देयम्’ इति न्यायात् । अतोप्यनियतावयव एव प्रयोगः । उपपन्नश्च मृदुमध्यकठोरधियां विस्तरसंग्रहाभ्यां व्यवहारः । यद्यप्युदाहरणोपनयाभ्यामेव व्याप्तिपक्षधर्मतयोः सिद्धत्वात् तावदेव तत्त्वतो वक्तुमुचितम्; तथापि विवक्षितस्पाष्ट्याय प्रतिज्ञाहेतूदाहरणानि उदाहरणोपनयनिगमनानि वा वाच्यानि, विवादविषयस्य साध्यार्थस्य अव्यक्तप्रतिपादनानुपपत्तेः ॥
ये तु-प्रतिज्ञादित्रयानन्तरं हेतोरसिद्ध्यन्यथासिद्धिपरिहारार्थ उपनयः । निगमने हेत्वंशः सिद्धसाधनतापरिहाराय, साध्यांशस्तु बाधपरिहारायेति वर्णयन्ति; तैर्नूनं तद्दोषपरिहाराय मन्त्रपाठोयमिष्टः, प्रतिज्ञाहेतुभ्यामेव तदर्थाभिधानसिद्धेः, अन्यथा नायमसिद्धो नापि बाधित इति व्यक्तमेव वक्तव्यत्वात् । आभासोद्धारनिबन्धेन पुनरुक्तिश्चेति । भगवद्यामुनमुनिभाष्यकारादिभिश्च पञ्चावयवा अपि हेतवः प्रयुक्ता इति चेत्, सत्यम्; अत एव ह्यनियमः सिद्धान्तितः । न च ग्रन्थेषु निबद्धमिति व्यवहारेपि तथेति नियमः, “स च प्रत्यगात्मा मुक्तावप्यहमित्येव प्रकाशते, स्वस्मै प्रकाशमानत्वात्” इत्यादावन्वयव्यतिरेकौ द्वावप्युक्ताविति तावता तयोर्द्वयोरप्यवश्यपठनीयत्वापातात् । यच्चेदं प्रयोगसंस्थानं निर्णीतम्, न तत्राप्यस्माकं निर्बन्धः, अत्र पर्वतेग्निरस्ति, यदत्र धूमो विद्यते; दृष्टं च धूवतामग्निमत्त्वमित्यादिनापि तदर्थप्रतिपादनोपपत्तेः । दृश्यन्ते चैवंविधानि चित्राणि प्रयोगवाक्यानि सर्वसैद्धान्तिकानां ग्रन्थेषु । एवमेव च पदानामन्वयमात्रं प्रधानयित्वा लौकिकवैदिकव्यवहारा अपि वर्तन्ते । तत्त्वरत्नाकरेपि-पञ्चानामवयवानां पृथक् प्रयोजनान्यभिधाय “अतश्च सर्वत्र पञ्चावयववाक्यमाद्रियन्ते वेदाचार्यादयः-‘पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित्-‘इत्यादौ” इत्यभिधायैव पुनरनियमः प्रतिपादितः-“न च सर्वदा सर्वेवयवाः प्रयोज्याः, न न्यूनाधिका इति निर्बध्नीमः, वक्तृप्रतिवक्तृसंप्रतिपत्तौ लघूपायोपादानेपि दोषाभावात्, लो€केपि तथा व्यवहाराच्च” इति । साधर्म्यवैधर्म्यवचनप्रयोगे चोक्तम्-“यथोपयोगं प्रतिपत्तपेक्षया विकल्पसमुच्चयावेव, अविरोधात्” इति । अन्यच्चोक्तम्- “प्रतिज्ञायाः परं हेतूदाहरणयोर्न क्रमनिर्बन्धः, व्याप्तिहेतुप्रदर्शने विशेषाभावात्” इत्यादि । अत एव पक्षादिवचनदोषविशेषाणां केषांचित् तत्रैवोक्तानामपि नियमकथाविषयत्वं सूचितम्- “सोयं गवयपदाभिधेयः, गोसदृशत्वात्; य इत्थम्, स तथा, यथोक्तमाप्तेन; अयं च गोसदृशः; ततस्तत्पदवाच्यः” इत्युत्क्वा
“व्याप्तौ दृष्टान्तदृश्यायामवश्यं स निदर्श्यते ।
आगमाद्व्याप्तिसिद्धौ न व्याप्तिपरस्मृत्यर्थमीयते ॥
धूमवानग्निमानेवेत्याप्तोक्तायां तथा गतिः ।” इ€त्यादि ॥
प्रज्ञापरित्राणे तु वरदविष्णुमिश्रोक्तानुसारेणैवमुक्तम्-
“परार्थमनुमानस्य प्रयोगेवयवास्त्रयः ।
प्रतिज्ञा चाथ हेतुश्च तथोदाहरणं मतम् ॥” इ€त्यादि ॥
अतो व्याप्तिपक्षधर्मताप्रतिपादनोपयुक्तेन येन केनापि प्रकारेण व्यवहरेत् । नियमकथायां तु यथानियममिति रहस्यम् ॥