14 पञ्चावयववाक्यनिरूपणम्

मूलम् - 2.2.2

॥ पञ्चावयववाक्यनिरूपणम् ॥
तदेवमनुमोद्बोधकं वाक्यं प्रतिज्ञादिपञ्चावयवम् । तत्र परप्रतिपिपादयिषया पक्षवचनं प्रतिज्ञा;
यथा-पर्वतोग्निमानिति । तत्र धर्मिणमुद्दिश्य साध्यधर्मो विधीयत इति वृद्धाः । साधकत्वप्रकाशकविभक्तिपदान्तरसमभिव्याहारयुक्तं लिङ्गस्य वचनं हेतुः; यथा-धूमवत्त्वात्, धूमवत्त्वेन, धूमोऽत्र विद्यते यत इत्यादि । प्रसङ्गद्वारेण वा-अन्यथा निर्धूमत्वप्रसङ्गादित्यादि । सम्यग्व्याप्तिनिर्देशपूर्वकं दृष्टान्तवचनमुदाहरणम् । तच्च व्याप्तेर्दृष्टान्तस्य च शैलीमनुरुध्य अन्वयोदाहरणं व्यतिरेकोदाहरणमिति भिद्यते । तत्र यो धूमवान् सोग्निमान्; यथा-महानस इत्यन्वयोदाहरणम् । योनग्निः स निर्धूमः; यथा-महाह्रद इति व्यतिरेकोदाहरणम् । यदुक्तसाधनं तदुक्तसाध्यम् । यदुक्तसाध्यं न भवति, तदुक्तसाधनं न भवति; यथा-संप्रतिपन्नमिति सामान्यतोप्युदाहरन्ति । अत्र च यदित्थं तत्तथेति साधारणप्रयोगादेव सर्वोपसंहारः सिध्यति; यथा-गौर्न पदा स्प्रष्टव्या इत्यादौ । अतो यद्यदिति वीप्सानपेक्षा । कस्य चित्तु सा स्पष्टार्था । दृष्टान्तनिदर्शनेन व्याप्ततया पक्षे हेतुमुपसंहरद्वाक्यमुपनयः । सोपि पूर्ववत् द्विधा-अयं च तथा धूमवानित्यन्वयोपनयः, अयं न तथा निर्धूम इति व्यतिरेकोपनयः । हेतुपूर्वं पक्षे साध्यमुपसंहरद्वाक्यं निगमनम् । तत्रापि पूर्वतुल्यन्यायतया द्वैविध्यमनुसंधेयम्; यथा- तस्मादसावग्निमान् इति, अयं निरग्निर्न भवतीति च ॥