मूलम् - 2.2.1
॥ श्रीः ॥
॥ द्वितीयमाह्निकम् ॥
॥ परार्थानुमानभङ्गः ॥
तदिदमनुमानं स्वार्थं परार्थं चेति केचिद्विभजन्ते; तदयुक्तम्, सर्वेषामप्यनुमानानां स्वप्रतिसंधानबलेन प्रवृत्ततयाप स्वव्यवहारमात्रहेतुत्वेन च स्वार्थत्वात् । वाक्यप्रतिपन्नेपि तस्मिन् न वाक्यबलादर्थसिद्धिः; किंतु वाक्योत्थापितव्याप्तिप्रतिसंधानादिनैव । न च प्रतिवादिवाक्यं व्युत्थितस्य प्रमाणम् । आप्तश्चेद्ब्रूयात् तत्रापि व्याप्तिमात्रे तेनोपदिष्टे श्रोता स्वयमेवानुमिनुयात्, न तु साध्यार्थज्ञानेप्युपदेशमपेक्षते । यदि च वाक्यप्रतिपादितत्वमात्रेणानुमानस्य परार्थत्वम्, तदा प्रत्यक्षागमयोरपि तथा विभागप्रसङ्गः, केषुचिदर्थेषु प्रमाणतया तयोरेवाभिधेयत्वात् । एतदुक्तं भवति- द्विविधानि प्रमाणानि-स्वयमेव सिद्धानि, परवाक्यपूर्वाणि चेति सामान्यत एव विभागः कार्य इति । एतदेव ह्युक्तं तत्त्वरत्नाकरेपि-
“सर्वं प्रमाणं सामग्र्या स्वत एव प्रवृत्तया ।
जन्यते परवाक्येन वृत्तया चेति हि द्विधा ॥
अतोनुमानं द्विविधं स्वपरार्थत्वभेदतः ।
प्रत्यक्षागमसामग्र्योः परवाक्ये प्रदर्शिते ॥
वक्ष्यते व्यवहाराध्वन्यनुमानस्य तूच्यते ।
अनुमोद्बोधकं वाक्यं प्रयोगः साधनं न तत् ॥” इत्यादि ॥