मूलम् - 2.1.12
॥ सामान्यतो दृष्टादिनिरूपणम् ॥
एतेन अस्मदादिप्रत्यक्षयोग्यार्थानुमापकं विशेषतो दृष्टम्, तदयोग्यार्थं सामान्यतो दृष्टमिति परोक्तविभागस्यापि विषयः सिद्धो भवति । लौकिकेष्वेव वा सूक्ष्मासूक्ष्मविभागात् तत्सिद्धेः । किंचिज्जातीयात् तद्व्यापकजातीयस्यानुमानं सामान्यतो दृष्टम्; यथा-धूमादग्नेः । व्याप्तिदशादृष्टयैव व्यक्त्या देशान्तरकालान्तरादौ व्यापकतया दृष्टव्यक्तेरेवानुमानं विशेषतो दृष्टम्; यथा- कृत्तिकया रोहिण्यनुमानमिति केचित् । तत्रापि निष्कर्षे कृत्तिकोदयरोहिण्यासत्तिव्यक्तीनां भूयस्त्वात् तदातनेन कृत्तिकोदयेन तादात्विकी रोहिण्यासत्तिव्यक्तिरेवानुमीयत इति सामान्यत एव व्याप्तिग्रहः, अन्यथा व्याप्तिदशादृष्टमात्रविषयत्वे स्मृतिमात्रत्वप्रसङ्गात् । एवं स्वरविशेषात् पुत्राद्यनुमानेपि पूर्वस्वरवदद्यतनस्वरस्य पुत्रस्वरत्वानुमानात् सिद्धौ भेदः । तेनैव शैलश्रृङ्गेण तस्यैव शेलस्य कथमनुमानमिति चेन्न, कथंचित् स्मृतिमात्रत्वात् । तत्कालवर्तित्वार्जवाद्यतिरिक्तग्रहे तु तत्कादादिव्यक्तिभेदसिद्धिरिति ॥
इति
श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
न्यायपरिशुद्धौ अनुमानाध्याये
प्रथमं प्रतिबन्धाद्याह्निकम् ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥