मूलम् - 2.1.11
॥ अनुमानविषयविशेषनिरूपणम् ॥
केवलान्वयिन्यपि व्याहतसाध्यविपर्ययव्यतिरिक्ताः सर्वे विपक्षे बाधकाभावान्निरस्ताः । अन्वयव्यतिरेकिण्यपि अत्यन्तातीन्द्रियार्थगोचरा अप्यैन्द्रियिकव्याप्त्युपजीवनेन प्रवर्तमानाः सपक्षानुगतव्याप्ताकारवैकल्यात् सोपाधिकत्वादिभिर्निराकृताः । चन्द्रबिम्बपरभागादिकं तु नास्मदाद्यतीन्द्रियम् । पर्वतपरभागादिवदिन्द्रियसंप्रयोगाभावादेव तदग्रहणोपपत्तिरिति युक्तं तदनुमानम् । सन्ति हि सतोप्यनुपलम्भहेतवो बहवः; यथोक्तं सांख्यैः-
“अतिदूरात्सामीप्यादिन्द्रियघातान्मनोनवस्थानात् ।
सौक्ष्म्याद्व्यवधानादभिभवात् समानाभिहाराच्च ॥” इति ॥
यत्तु-
“सौक्ष्म्यात् तदनुपलब्धिर्नाभावात् कार्यतस्तदुपलब्धेः ।
महदादि तच्च कार्यं प्रकृतिसरूपं विरूपं च ॥” इति;
ईदृशविषयेनुमानं वार्यते, न तु दृष्टजातीयसूक्ष्मेषु; यथा- उष्णजलादौ वह्न्यादेः । यत्र तु शास्त्रेणैव व्याप्यव्यापकभावग्रहणम्, तत्रात्यन्तातीन्द्रियाणामप्यनुमानं न वारयामः; यथा- तत्तज्जातिगुणकर्मवर्णप्रज्ञामेधागदादिषु दृष्टेषु तत्तत्कारणभूतादृष्टविशेषानुमानमिति । “अतीन्द्रियेर्थे सर्वत्र शास्त्रमेव प्रमाणम्” इति भाष्यमपि प्रत्यक्षसिद्धव्याप्त्युपजीवनेन अत्यन्तातीन्द्रियार्थसाधनबाधनप्रतिक्षेपपरम्; न तु
शास्त्रसिद्धव्याप्तिमूलातीन्द्रियानुमाननिषेधार्थम्, तत्रापि शास्त्रमूलतया तस्मिन्नेव विश्रमाच्छास्त्रमेव प्रमाणमिति वाचोयुक्तेरविरोधात् ॥