10 लक्षणनिरूपणम्

मूलम् - 2.1.10

॥ लक्षणनिरूपणम् ॥
ननु यदि केवलव्यतिरेकि न प्रमाणम्, लक्षणमिति किमपि न स्यात्, तस्य तदात्मकत्वात् । तदभावे च कथं परस्परव्यावृत्तः वस्तुव्यवस्था ? ततश्च विलीनं लौकिकपरीक्षकवैदिकव्यवहारैरिति; तन्न, लक्षणस्य केवलव्यतिरेकित्वाभावात् । उक्तं हि तत्त्वरत्नाकरे-
“अर्थासाधारणाकारप्रतिपत्तिनिबन्धनम् ।
सजातीयविजातीयव्यवच्छेदेन लक्षणम् ॥”
इत्युक्त्वा “सचायं जात्यादिराकारः प्रमेयं निष्कृष्य लक्षयत प्रमाणस्य सजातीयविजातीयव्यवच्छेदांशे सहकारी€ति लक्षणमुच्यते” इति । एतेन तत्तत्प्रतिपादकं प्रमाणं तत्त्वनिष्कर्षे शरणमित्युक्तं भवति । एतेन लक्षणानिरुक्तिमात्रेण लक्ष्यमपलपन्तो निराकृताः । न हि प्रतीतमिति सर्वं निर्देष्टुमपि शक्यम्, सर्वलौकिकपरीक्षकव्यवहृतस्य घटस्यापि पृथुबुध्नादिमत्त्वाङ्गुलिनिर्देशविषयत्वादेः साधारणत्वात्, तद्विशेषस्य तु दुर्वचत्वात् । उक्तं च दण्डिना–
“इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् ।
तथापि न तदाख्यातुं सरस्वत्यापि शक्यते ॥” इति ॥
असाधारणधर्मोपस्थापनेन व्यवहारव्यवस्थापकमाप्तवाक्यादिकमेव वा लक्षणम्; यथा-गन्धवती पृथिवीति । यत् गन्€धवत् तत् सर्वं पृथिवीशब्देन व्यवहर्तव्यम्, नेतरदिति हि तदर्थः । प्रमाविषयः प्रमेयमित्यादिषु च लक्षणतया संमतेषु विपक्षशून्यत्वेन केवलव्यतिरेकित्वभङ्गप्रसङ्गः । यद्वा अन्वयव्यतिरेकिविशेष एव लक्षणम् । स च समव्याप्तः । असाधारणो व्यापको धर्मो लक्षणमिति वा लक्षणम् । तत एवेतरप्रतिक्षेपस्तत्त्वं च सिध्यति; यथा-शरीरादेः पार्थिवत्वादिसंदेहे, शरीरं पार्थिवम्, गन्धवत्त्वात्, घटवत् । शरीरमाप्यादिकं न भवति, गन्धवत्त्वात्, घटवदित्यादि । तदेवं तत्त्वतदितरप्रतिक्षेपयोः साधनाल्लक्षणत्वं गन्धवत्त्वस्येति ॥
नन्वनेकव्यक्तिसंग्राहकलक्षण्€ो तथा स्यात् । एकव्यक्तिलक्षणे तु कथम् ? यथा-आकाशादेः शब्दमात्रवत्त्वादाविति चेन्न, आकाशादिशब्दानामपि जातिशब्दत्वात् । कल्पादिभेदापेक्षया बहवो ह्याकाशादयः । अस्तु तथा तेषु । ईश्वरादिलक्षणं तु कथम् ? न हीश्वरस्य कल्पादिभेदेपि भेदास्ति; सत्यम्; तत्र तु प्रागुक्तनीत्यैव धर्मिग्राहकेणैव लक्षणविशिष्टलक्ष्यसिद्धावसाधारणधर्मातिरिक्तव्यावृत्त्यभावान्न साध्यं किंचिदवशिष्यते । तथापि तत्रैश्वरादिलक्षणव्यतिरेकस्यानीश्वरत्वव्याप्तेर्ब्रह्मादिषु केषुचिदीश्वरतया शङ्क्यमानेषु तेनानीश्वरत्वं साध्यते । तत्र चान्वयव्यतिरेकित्वमेव । प्रतियोगिनः प्रमाणसिद्धेश्चाभावनिरूपणोपपत्तिः । प्रयोगश्च ब्रह्मादयोनीश्वराः,
सकलजगत्सृष्ट्याद्यकारणत्वात्, घटवत् । कालो न प्रकृतिः, महदादिविकाररहितत्वात्, चेतनवत् । त्रिगुणं कालातिरिक्तम्, कलादिविकाररहितत्वात्, चेतनवत् ॥
एवं तदात्मना शङ्क्यमानानां तद्व्यतिरेकसिद्धेस्तस्यापि तेभ्यो व्यतिरेकः सिद्ध इति लक्षणफलम् । अतः सर्वत्राप्यन्वयित्वमेव । एवं तर्हि सर्वस्मिन्नेव लक्षणे तदितरस्य तद्व्यतिरेको वक्तुं शक्यः; यथा-गवयो न गौः, सास्नादिरहितत्वात्, महिषवदित्यादीति चेत्, अस्त्वेवम्; तावतापि न लक्षणस्य केवलव्यतिरेकित्वम् । अयं गौः, सास्नादिमत्त्वात्; यथा-अस्मदीयः; यो गोव्यतिरिक्तः, नासौ सास्नादिमान्; यथा-महिष इत्यत्र, नायं गौः सास्नादिरहितत्वात्; यथा-महिषः; यो गौः स सास्नादिमान्; यथा–संमत इत्यत्र चान्वयव्यतिरेकित्वमेव । ये पुनः-विप्रति पन्नः सार्वो गौरिति व्यवहर्तव्यः, अगोव्यावृत्तो वा, गोत्वात्, सास्नादिमत्त्वाद्वेति लक्षणस्य केवलव्यति€रेकित्वमाहुः; तेषामंशतः सिद्धसाधनत्वमपि दुष्परिहरम् । सकलव्य€क्तिसंग्राहकप्रवृत्तिनिमित्तस्य सकलेतरप्रतियोगिकव्यावृत्तेश्चासिद्धतया नैवमिति चेन्न, गौरिति व्यवहर्तव्य इत्यत्रापि गोत्वमेव व्यवहारनिमित्तमिति नियन्तुमशक्यत्वात्, अन्यस्याप्यसाधारणधर्मस्य तन्निमित्तत्वाविरोधात्, लाघवादेश्च समत्वात् । गोत्वनिमित्तगोव्यवहारवानित्येव साध्यार्थे प्राग्वदप्रसिद्धविशेषणत्वादिकम् । सकलेतरप्रतियोगिकव्यावृत्तिसाधने त्वपोहवादिन इवान्योन्याश्रयणम् । अपि च,
लक्षणादधिके भेदे क्व वातीतस्य संभवः ।
तस्यैव तत्त्वे किं केन किमर्थं साधयिष्यसि ॥
किं च महिषादिसमस्तव्यावृत्तेरेकस्मिन् गवि सिद्धत्वादपरिहृतमेव सिद्धसाधनत्वम् । एतदेव चानूद्य तत्त्वरत्नाकरेप्युक्तम्- “क्षोण्यादिलक्ष्यं प्रमाणसिद्धं न वा ? तदसिद्धावाश्रयासिद्धिर्लक्षणात्मनो हेतोः । सिद्धौ च साधनं मुधा । स्वरूपसिद्धावपि व्यवच्छेदः साध्यत इति चेत्, तादृगेव तदपि; तथापि ह्यप्रसिद्धविशेषणः पक्षः स्यात्, इतरव्यवच्छेदस्य क्वचिदनालोचितचरत्वात्, सिद्धौ वा साधनवैयर्थ्यात् । किं च प्रमाणस्य स्वविषयव्यवस्थायां प्रमाणान्तरापेक्षणादनवस्थितिपरतः प्रामाण्ये प्रसज्येयाताम् ॥
तस्माद्धर्मः प्रमेयात्मा धर्मिनिष्कर्षमाचरन् ।
लक्षणं न प्रमाणात्मेत्युक्तयैव दिशा गतिः ॥” इति ॥
तस्माद्यथोक्त एव लक्षणप्रकारः, न पुनस्तस्य केवलव्यतिरेकित्वमिति । एवं केवलव्यतिरेकिणि निरस्ते प्रामाणिकानां हैतुकभङ्गभारस्य त्र्यंशोवरोपितः ॥