09 केवलव्यतिरेकिभङ्गः

मूलम् - 2.1.9

॥ केवलव्यतिरेकिभङ्गः ॥
ननु न द्विविधं व्याप्यम्, केवलव्यतिरेकिणोपि भावात्; तथाहि-अनुभूतिरननुभाव्या, अनुभूतित्वात्; यदनुभाव्यम्, न सा अनुभूतिः; यथा घटः । न चान्वयव्याप्त्यभावादस्याव्याप्तिरिति भाव्यम्, व्यतिरेकव्याप्त्यभावात् केवलान्वयिनोप्यव्याप्तिप्रसङ्गात्, द्वयोरपि व्याप्त्योः प्रत्येकमन्वयव्यतिरेकिणि प्रदर्शनीयत्वाभ्युपगमाच्च । उक्तं च वरदविष्णुमिश्रैरपि- “तत् पुनरन्वयव्यतिरेकि, केवलान्वयि, केवलव्यतिरेकीति त्रिविधम्-” इत्यादि । तत्त्वरत्नाकरेप्युक्तम्- “अक्षापादस्त्रैधमसूत्रयत्-“इत्यादीति चेत्, न तावदिह संप्रदायविरोधः, “केवलव्यतिरेकि तु साधनदशामेव नासादयति, सपक्षान्वयविरहात्, असाधारणवत्-” इत्यादिना आत्मसिद्धौ भगवद्यामुनमुनिभिः प्रपञ्चितत्वात् । उक्तं च न्यायकुलिशे स्वप्रकाशवादे श्रीमद्रामानुजार्यैः- “न च सिद्धान्तिनोयं प्रसङ्गः, केवलव्यतिरेकिप्रामाण्यानभ्युपगमात्” इति । अतो वरदविष्णुमिश्रोक्तमेकदेशिमतम्, परमतानुसारेण वोक्तम् । तत्त्वरत्नाकरेपि “अक्षपादस्त्रैधमसूत्रयम्” इत्युपक्रम्योक्तम्, न तु स्वमततया ॥
यत्तु तत्रैव हेत्वाभासनिरूपणेप्युक्तम्- “इयं ह्यनध्यवसितकेवलव्यतिरेकिणो भिदा । विद्यमानसपक्षोपि पक्षमात्रवृत्तिः प्रथमः । अन्यस्त्वविद्यमानसपक्षो विपक्षाद्व्यावृत्त इति । तत्र दृष्टे साध्यवति सपक्षे साधनस्य ततो व्यावृत्तावन्वयबाधादाभासत्वं स्पष्टम् । अदृष्टे तु तस्मिन् साध्यान्वयाक्षेपकपूर्वोक्तप्रमाणावतारादनाभासत्वं सुवचम्” इति; तदप्यनादरभाषितमिति मन्यामहे; अन्यथा सपक्षैकदेशवृत्तेरप्याभासत्वप्रसङ्गात्, साध्यान्वयबाधस्य तावतापि
सुवचत्वात्, लक्षणनिरूपणे चाभिप्रायव्यक्तेः, साध्यान्वयाक्षेपकाणां च सामान्यतोपि निराकरिष्यमाणत्वात् ॥
ननु सपक्षैकदेशवर्तिनः साध्यान्वयोप्यस्तीति कथं साध्यान्वयबाधशङ्का ? सपक्षे सत्यपि पक्षमात्रवर्तिनो वा पक्ष एव साध्यान्वयसंभवे कथं तद्बाधः ? तथाप्यन्यत्र क्वचित् साध्यसंबन्धो न दृष्ट इति चेत्, तुल्यं केवलव्यतिरेकिण्यपि । साध्यमपि तस्य क्वचिन्न दृष्टमिति विशेष इति चेत्, हन्त ! दोष एव गुणीभवत्यायुष्मतः; साध्यादर्शने साध्यासंबन्धोपि न दृष्टः स्यादिति चेत्, तर्ह्यसंबन्धदर्शनं दोष इति सपक्षैकदेशवर्तिनोप्यसौ दुस्त्यजः । क्वचित् संबन्धदर्शनात् तस्य दोषपरिहार इति चेत्, तर्हि क्वचिदपि संबन्धादर्शनात् केवलव्यतिरेकिणः साध्यसंबन्धप्रतीत्यनुत्पत्तिरेवेति किमबाधेन ? तेनैव पक्षे संबन्धः प्रतीयत इति चेन्न, सिद्धे संबन्धे व्याप्याद्व्यापकधीः, व्यापकप्रतीतौ च संबन्धधीरित्यन्योन्याश्रयणात् ॥
अथ साध्याभावः साधनाभावेन व्याप्तः ; सांधंनाभावश्च निवर्तमानः स्वव्याप्यं साध्याभावमपि निवर्तयन् साधनस्य साध्यव्याप्यतामुपादायैव विश्राम्यतीति प्रतिबन्धसिद्धिः, अभावव्याप्तिवैपरीत्येन भावव्याप्तेः सार्वत्रिकत्वात्, साध्यसाधनविरुद्धधर्मद्वयान्वयसमव्याप्तेश्च साध्यसाधनसमव्याप्त्यव्यभिचारित्वसिद्धेरिति चेत्, मैवम्-
व्याप्यानां व्यापकाभावव्यापकाभावयोगिता ।
कथं नाम नियन्तव्या केवलान्वयिवादिनः ॥
केवलान्वयिनि व्याप्ये न हि सर्वसपक्षगे ।
तद्व्यापके वा क्वापि स्यादभावप्रतियोगिता ॥
अपि च, अनध्यवसितेपि तथा व्याप्तिः सुवचा । नित्यत्वाभावो हि गन्धवत्त्वाभावेनाबादिषु व्याप्तः । गन्धवत्त्वाभावश्च पृथिव्या निवर्तमानः स्वव्याप्यं नित्यत्वाभावमपि निवर्तयन् गन्धवत्त्वस्य नित्यत्वव्याप्यतामुपादायैव विश्राम्यतीति । नन्वेवमनित्यत्वेनापि व्याप्तिस्तस्य ग्रहीतुं शक्यत इति चेत्, तर्हि केवलव्यतिरेकिसाध्येन वस्त्वन्तरासाधारणस्वभावस्यापि व्याप्तिर्ग्रहीतुं शक्यत इति समो दोषः । तथा हि-घटः स्वप्रकाशः, घटत्वात्; न यदेवं न तदेवम्; यथा-पट इति व्याप्तिः सुग्रहा । अनुभूतेरनुभाव्यत्वे घटादिवदननुभूतित्वप्रसङ्ग इति केवलव्यतिरेकिणो विपक्षे बाधकमस्तीति विशेष इति चेन्न, घटस्यानुभाव्यत्वे पटवदघटत्वप्रसङ्ग इति सुवचत्वात् । किं च सपक्षवति असाधारणे साध्यं क्वचित् प्रसिद्धमिति तद्व्यतिरेकव्याप्तिर्ग्रहीतुं शक्या । इह तु साध्यधर्मस्य पूर्वमप्रसिद्धतया तद्व्यतिरेकव्याप्तेरसत्प्रतियोगिकत्वेन प्रवृत्ताया दुर्ग्रहत्वमेव । अथानुभाव्यत्वरूपतद्व्यतिरेकः सुग्रह
इति चेन्न, तथापि यदनुभाव्यं न सा अनुभूतिरिति व्याप्तिग्रहणदशायामेव प्रतियोगिभूतानुभूत्यनुभाव्यत्वदर्शनेन व्याघातात् । भावसाधककेवलव्यतिरेकिषु च यदि साध्यं पक्षे प्रसिद्धम्, तर्हि व्यर्थमनुमानम् । यद्यन्यत्र, तदा सपक्षे सति केवलव्यतिरेकित्वं न स्यात् । न चोभयातिरिक्तमस्ति, व्याघातात् । न हि भावाभावात्मना विकल्पेपि कोट्यन्तरसंभवः, “परस्परविरोधे तु न प्रकारान्तरस्थितिः ।” इति न्यायात् । तुल्यं चेदमभावसाध्यकत्वेपि, साध्यादिव्यतिरेकमुखेन व्याप्तेर्ग्रहीतव्यत्वात्; अन्यथा कस्य केनैषा व्यतिरेकव्याप्तिः ? स्वरूपतः प्रवृत्तापि हि व्यतिरेकव्याप्तिः । सा प्रकृतव्यतिरेकत्वपरामर्शाभावे कथं प्रकृतस्योपकरिष्यति । न च सामान्यतः क्वचिदिति विदितं साध्यं केवलव्यतिरेकिणा पक्षरूपे विशेषे व्यवस्थाप्यत इति वाच्यम्, तथाविधसामान्योपस्थापकप्रमाणाभावात् । वेद्यत्वं किंचिन्निष्ठात्यन्ताभावप्रतियोगि, धर्मत्वात्, घटत्ववदित्याद्यस्यतीति चेन्न, स्ववचनविरोधात्, किंचिदिति निर्दिश्यमानस्य वेद्यत्वे तदभावाधिकरणत्वविरोधात्, अवेद्यत्वे तत्र किंचिच्छब्दप्रयोस्यैवानुपपत्तेः, यत्किंचिद्धर्मात्यन्ताभावलक्षणधर्मेण चानैकान्त्यात् । तस्य च सर्वत्र वृत्त्यनभ्युपगमे पुनर्व्याघातः । तथा सति हि कस्यचित् सर्वधर्मविशिष्टत्वमेष्टव्यम् । तथा च तत्र तद्वत्त्वतदभाववत्त्वयोः समुच्चयः स्यात् । संविदोपि यत्किंचिद्धर्मात्यन्ताभावविरहे तन्निष्ठात्यन्ताभावसाधनविरोधः, तद्विरहेण पुनस्तत्सिद्धेश्च, यत्र यदत्यन्ताभावविरहस्तत्र तस्य सत्त्वावश्यंभावात् । न च स्वरूपमेवात्र तद्विरहः, तदारोपसहे तदयोगात् । एवं किंचिच्छब्दवाच्यत्वलक्षणधर्मेणाप्यनेकान्तो वाच्यः । यदि क्वचित् किंचित्त्वं न स्यात्, अलीकतैव स्यात् । कथं च क्वचिदिति निर्दिष्टे किंचित्त्वं न स्यादित्युच्येत ? एवम्, इच्छादयोष्टद्रव्यातिरिक्तद्रव्याश्रिताः, अष्टद्रव्याश्रितत्वायोगे सति गुणत्वादित्यत्राष्टद्रव्यातिरिक्तद्रव्यसिद्धौ व्यतिरेकिवैयर्थ्यम् । असिद्धौ स एव दोषः । गुणत्वेन द्रव्याश्रितत्वेनुमिति अतिरेकानतिरेकविप्रतिपत्त्या च संशये अष्टद्रव्याश्रितत्वकोटावनिष्टप्रसङ्गेनाभिमतकोटिपक्षपातिनी शङ्का जायते, तद्बलेन तदेककोटिगोचरस्मृतिसंततिर्वा । इदमेव संभावितत्वं वस्तुनः । अतः संभावनासिद्धत्वेनाप्रसिद्धविशेषणत्वव्यतिरेकासिद्ध्योरनसिद्धेरिति चेन्न, संभावनायाः प्रमाणत्वे पूर्ववत् प्रमाणान्तरानपेक्षणात्, अप्रमाणत्वेनुपयोगित्वात् । साध्यमानस्य पक्षमात्रे हि शङ्का गुणाय, न तु सार्वत्रिकी । यद्विपर्ययेनिष्टप्रसक्तिः, तत् प्रमाणयोग्यमिति निश्चिते विप्रतिपत्तिवाक्यजनितसंशयाधीनसंभावनापदमिदं च तथेति सामान्यतः प्रमाणविषयत्वे सिद्धे विशेषापेक्षायां व्यतिरेकिसाफल्यमिति चेन्न, इदं च तथेत्युपनयस्य निराश्रयत्वात्, सिषाधयिषितानुमानेन तत्सिद्धावन्योन्याश्रयणात्, प्रमाणयोग्य€मित्यनेनैव प्रामाणिकत्वसिद्धौ प्रमाणवि€शेषचिन्तायाश्च निष्प्रयोजनत्वात् । यच्च-गुणत्वादिति सामान्यतो दृष्टेन द्रव्याश्रितत्वे सिद्धे तत्र चान्वयव्यतिरेकव्याप्तिनिरूपणे अष्टद्रव्याश्रितत्वानुपपत्तिसाचिव्यात् तत एव हेतोरतिरिक्ताश्रितत्वं सिध्यतीति; तदपि न, तत्राप्यतिरिक्तविशेषाकारस्य क्वचिदप्यसिद्धेः । इच्छादयोनुपपन्नव्यतितिरिक्ताश्रिता इति सामान्यसाधने तु-यो यद्द्रव्याश्रितत्वानुपपत्तौ सत्यां द्रव्याश्रितः, स ततोतिरिक्तद्रव्याश्रितः; यथा गन्धादिः; इच्छादयश्च तथा-इत्यन्वयस्यापि सिद्धौ न केवलव्यतिरेकिता । अस्त्वेवम्, तथापि पश्चात् केवलव्यतिरेकिणापि जीवितुं शक्यमिति चेन्न, “संदिग्धे न्यायः प्रवर्तते” इति न्यायेनाशक्यत्वात् ॥
अथ सामान्यतः सिद्धेच्छाद्याश्रयपक्षीकारेण विगीतोष्टद्रव्यव्यतिरिक्तः, इच्छाद्याश्रयत्वादिति साध्यते; तदा गुणादौ सपक्षे तिष्ठति त्वयैवाभासतेष्यते । गुणादिनिष्ठहेत्वन्तरप्रयोगे तु अन्वयित्वमेव । तत्र तु गुणादेरपि पक्षीकरणे अंशतः सिद्धसाध्यत्वम् । तदसिद्धौ पुनरप्रसिद्धविशेषणता । यच्च-इच्छादेः कार्यत्वादिना सामान्यतः समवायिकारणसिद्धौ, शरीरमिच्छासमवायिकारणवत्, प्राणादिमत्त्वात्; न यदेवं न तदेवमिति सर्वदोषपरिहारः-इति; तदपि न, संबन्धमात्रसाधने घटादेः सपक्षत्वापातात्, शरीरत्वादिलक्षणसंबन्धविशेषसाधने त्वप्रसिद्धविशेषणत्वात्; अन्यथा घटः इच्छासमवायिकारणवान्, घटत्वात्; न यदेवं न तदेवमित्यपि प्रसङ्गात्, अन्यतो विशेषनिर्णयस्य निरवकाशत्वात् । न च वह्न्यादिसंबन्घसाधनेप्येवं संबन्धविकल्पप्रसङ्गः ।, वह्निसंयोगित्वस्य स्वरूपतः सिद्धस्य पक्षधर्मताबलेन पर्वतनिष्ठत्वमात्रविश्€ोषलाभात् । अत्र त्विच्छासमवायिकारणसंबन्धविशेषस्यैव साध्यधर्मस्य स्वरूपतः क्वचिदप्यसिद्धत्वेन तस्य शरीरनिष्ठत्वसाधनायोगादिति ॥
यत्तु सर्वं कार्यं सर्ववित्कर्तृपूर्वकम्, कादाचित्कत्वात्, वेदाः सर्वज्ञप्रणीताः, वेदत्वादित्याद्युदाहरणम्; तत्रापि सर्ववित्कर्तृपूर्वकत्वादेः क्वचिदप्यग्रहणात् तद्व्यतिरेकस्य साधनव्यतिरेकेण व्याप्यत्€वग्रहणमनुपपन्नम् । यदि प्रत्येकव्युत्पन्नसर्वविदादिपदसमुदायसमभिव्याहारमात्रेण सांध्यसिद्धिरिति मन्यसे, तदा शशविषाणादिवदयोग्यपदसमभिव्याहारमात्रेण भ्रान्तिसिद्धं साध्यमित्युक्तं भवति । यदि बाधकाभावादत्रायोग्यत्वं नास्तीत्यभिप्रायः, तदप्यसारम्, सामान्यतः सिद्धस्यैव विरोधस्य साधकाभावे बाधकत्वात्, तस्यैवानुमानस्यैतत्साधकत्वेन्योन्याश्रयणात् । न चागमतया तानि पदानि तदर्थमुपस्थापयन्ति, अनभ्युपगमात्, आप्तोक्तत्वनित्यत्वयोरभावे तदनुपपत्तेश्च । अथागमसिद्धं सर्वज्ञमात्रमुपजीव्य तत्पूर्वकत्वं साध्येत, तथापि तत्पूर्वकत्वस्याप्रसिद्धिस्तदवस्थैव । तस्यापि चेत् प्रसिद्धिरागमतो गृह्येत; सा चेत् पक्षे, कृतमनुमानेन । विपक्षे चेत्, व्याघातः । सपक्षस्तु नात्र त्वयेष्यते, तथा सत्यन्वयव्यतिरेकित्वापातादिति । एवं केवलव्यतिरेक्युदाहरणान्तरेष्वपि दूष्€ाणमुन्नेयम् ॥
सर्वत्र च केवलव्यतिरेकिणी सत्त्वादिभिः केवलान्वयिभिः सार्वत्रिकसाध्यदर्शनलब्धजीवितैः प्रतिरोधो बाधो वा ग्राह्यः । एवं केवलव्यतिरेकिणि साध्याप्रतिद्धेस्तद्व्यतिरेकव्याप्तिर्दुर्ग्रहा । अन्वयव्यतिरेकिण्यपि अन्वयव्याप्तिरेव प्रधानभूता । व्यतिरेकव्याप्तिरप्यन्वयसिद्धप्रतियोगिलाभात् समीची । तत्रान्€यतरव्याप्त्युदाहरणमात्रेणापि परार्थप्रयोगोपि चरितार्थ इति ॥