08 हेतुविभागः

मूलम् - 2.1.8

॥ हेतुविभागः ॥
द्वेधा च व्याप्यम्-अन्वयव्यतिरेकि, केवलान्वयि चेति । तत्र पूर्वोक्तपञ्चरूपोपपन्नं विपक्षवत् अन्वयव्यतिरेकि; यथा- पर्वतोऽग्निमान् धूमवत्त्वात्; यो धूमवान् सोऽग्निमान्; यथा- महानसः; योऽनग्निः स निर्धूमः; यथा-महाह्रद इति । यद्यपि स्वसाध्यसाधनेऽन्वयव्यतिरेकयोरन्यतरैणैवालमिति तावता व्यपदेशोऽपि युक्तः; तथाप्युभयसद्भावज्ञापनाय असाधारणकेवलान्वयिभ्यां व्यावृत्तिज्ञापनाय च व्याप्तिद्वयेन व्यपदेशः । तादृशमेव विपक्षरहितं केवलान्वयि; यथा-ब्रह्मशब्दवाच्यम्, वस्तुत्वात् द्रव्यत्वाद्वा, घटादिवत् । अनुभूतिरनुभाव्या, वस्तुत्वात, घटादिवदित्यादि । न ह्यशब्दवाच्यमननुभाव्यं वा किंचिदस्ति, येन विपक्षः स्यात् । असदस्तीति चेन्न, व्याहतवचनत्वात् निरुपाधिकनिषेधासंभवाच्च । सोपाधिकनिषेधे सत एवासच्छब्देनाप्याकारान्तरनिमित्तेन व्यपदेशः । तथा च यदि तत्र वस्तुत्ववाच्यत्वादिहेतुसाध्यव्यतिरेक उच्यते, तदा व्याघातः । अव्याहतस्थलेषु त्वन्वयव्यतिरेकित्वमेव स्यात् । न च तदतिरिक्तमसदिति किंचित् प्रतीमः, येन तत्र व्यतिरेकमनुसंदधीसहि । एतेन, असतो व्यतिरेकदृष्टान्तत्वमिच्छन्तो निरस्ताः, तथा सत्यभावरूपेषु साध्येष्वसतोऽन्वयदृष्टान्तत्वस्याप्यवर्जनीयत्वप्रसङ्गाच्च हेतोश्चाप्रतीयमानत्वादेरभावात्मकस्य वायस्य कस्य चित् प्रयोक्तुं शक्यत्वात् । भाष्यादिषु तु क्वचित् शशविषाणाद्युदारणं प्रतिबन्द्यभिप्रायेण परमतेन वेति द्रष्टव्यम्, “पिशाचानां पिशाचभाषयैवोत्तरं देयम्” इत्यादिन्यायात्, स्वयमेव निरुपाधिनिषेधासंभवस्य शून्यवादनिराकरणे दर्शितत्वाच्चेति । तर्हि विपक्षरहितस्य केवलान्वयिनो विपक्षवृत्त्यभावः कथमिति चेत्, हन्त ! किं तस्य विपक्षवृत्तित्वमस्ति ? तदपि नास्तीति चेत्, तर्हि तावदेवानुमानाङ्गमित्युक्तम्, तदभावेऽपि तद्वृत्तिलक्षणविशिष्टस्यासिद्धेरिति । एतेन, केवलान्वयि नानुमानं, विपक्षरहितत्वात्, सर्वमनित्यं सत्त्वादित्यादिवदिति हैतुकदुर्दरूटदृष्टिर्दूषिता ॥
ननु, यदि केवलान्वयि प्रमाणम्, अग्निरनुष्णः, पदार्थत्वात्, घटवदित्याद्यपि प्रसज्येतेति चेन्न, बाधितत्वात् । तर्हि धर्मादयः कस्यचिदिन्द्रियग्राह्याः, प्रमेयत्वात्, मीमांसकानामप्रत्यक्षत्वाद्वा, अस्मत्सुखादिवदित्यादि स्यादिति चेन्न, विपक्षे बाधकाभावादेरुक्तत्वात् । अनुभूतेः स्वयंप्रकाशाया अप्यननुभाव्यत्वे अनुभूतिपदप्रयोगस्यैव निरर्थकत्वप्रसङ्गात् । परस्यानुभूतिविषयानुभवसिद्ध्यर्थमेव हि तत्प्रयोगः । एवं वाच्यत्वविपर्ययेपि बाधः स्पष्टः । तस्मात् व्याहतसाध्यविपर्ययं केवलान्वयि प्रमाणमिति संक्षेपः । अत एव
महाविद्यादिरूपकेवलान्वयिनामप्यनवकाशः, अव्याहतसाध्यविपर्ययत्वात्; अन्यथा तेषां सर्वसाधकत्वसामर्थ्याभ्युपगमभङ्गप्रसङ्गात् ॥