07 साधनरूपनिरूपणम्

मूलम् - 2.1.7

॥ साधनरूपनिरूपणम् ॥
तस्य द्वे रूपे अनुमित्यङ्गभूते-व्याप्तिः पक्षधर्मता चेति । तयोरेव प्रपञ्चनात् पञ्च रूपाणि-पक्षव्यापकत्वम्, सपक्षे सत्त्वम्, विपक्षवृत्तिरहितत्वम्, अबाधितविषयत्वम्, असत्प्रतिपक्षत्वं चेति ।
सिषाधयिषितधर्मविशिष्टो धर्मी पक्षः; यथा-अग्निमत्त्वादिसाधने पर्वतादिः । तस्मिन्नभिन्नप्रकारेण स्वायोगव्यवच्छेदेन सर्वत्र वर्तमानत्वं पक्षव्यापकत्वम् । सिषाधयिषितसजातीयधर्मवान् सपक्षः; यथा-महानसादिः । तस्मिन् सर्वत्र, कतिपयव्यक्तौ वा वृत्तिः सपक्षे सत्त्वम्; सर्वसपक्षावृत्तिराहित्यमित्यर्थः । कृतकत्वादयः सपक्षव्यापकाः । धूमवत्त्वादयः सपक्षैकदेशवर्तिनः । तत्र सपक्ष एव हेतुधर्मेणापि समन्वितः साधर्म्यदृष्टान्तः । तस्य व्याप्तिदर्शनस्थानत्वादुभययोगापेक्षा । साध्यतज्जातीयशून्यो विपक्षः; यथा-महाह्वदादिः । तत्र सर्वत्रावृत्तिः विपक्षवृत्तिरहितत्वम् । इदं च क्वचिद्विपक्षाभावात्, क्वचित् तत्संसर्गाभावादिति द्विविधम् । पूर्वं केवलान्वयिनि, द्वितीयमन्वयव्यतिरेकिणि चानन्तरं द्रष्टव्यम् ॥
अन्ये तु विपक्षाद्व्यावृत्तिरितीदं रूपमकल्पयित्वा केवलानवयिनश्चतूरूपत्वमाहुः; तदसत्; विपक्षवृत्त्याख्यदोषस्याभाव एव ह्यत्र रूपत्वेन विवक्षितः । तावदेव चान्वयव्यतिरेकिण्यपि रूपम् । तच्च रूपं तुल्यं केवलान्वयिन्पीति । विपक्षसद्भावस्तु व्यतिरेकव्याप्तेरङ्गम्, विपक्षवृत्तिरूपदोषस्य च; न पुनस्तदभावस्य । विपक्ष एव हेतुना शून्यो व्यतिरेकदृष्टान्तो भवति । हेतुमानपि हि विपक्षोऽस्त्येव; येन हेतोरनैकान्त्यादि वक्ष्यते । ततश्चानैकान्त्याद्यनुपदर्शितव्याप्तिकत्वादिपरिहाराय व्यतिरेकदृष्टान्तस्योभयनिवृत्त्यपेक्षा । व्याप्तिदर्शनस्थानं हि दृष्टान्तभूतमाहुः ॥
प्रबलेन प्रमाणेन पक्षे निश्चितसाध्याभाववत्त्वं बाधितविषयत्वम्; यथा-महाह्वदो वह्निमानित्यादौ । तदभावस्त्वबाधितविषयत्वम्; यथा-पर्वतः परभागेऽग्निमानित्यादौ । समबलतया प्रतीयमानप्रमाणोपरोधाभावः असत्प्रतिपक्षत्वम्; यथा-धूमानुमानादेः ॥