06 उपाधिनिरूपणम्

मूलम् - 2.1.6

॥ उपाधिनिरूपणम् ॥
सेयमुभयविधापि व्याप्तिरुपाधिसंभवे दुष्यति । साधनाव्यापकत्वे सति साध्यसमव्याप्तः साधनधर्मव्यतिरिक्तो धर्म उपाधिः । सावयवत्वादनित्यत्वसाधने कृतकत्वस्य, कृतकत्वादनित्यत्वसाधने सावयवत्वस्य, समव्याप्तहेतुप्रयोगे तत्स्वरूपस्य चोपाधित्वव्युदासाय विशेषणत्रयम् । पक्षेतरत्वादेरुपाधित्वव्युदासाय तु समशब्दः । इतरथा साध्यव्यापक इत्येतावता सावयवात्वादेरुपाधित्वव्युदासः शक्यः । सावयवमीश्वरविग्रहादिकं नित्यतया श्रुत्यादिसिद्धमनभ्युपगच्छतां सावयवत्वाद्युदाहरणम् । अभ्युपगच्छतां तु द्रव्यत्वाद्वाच्यत्वसाधने वस्तुत्वस्य, वस्तुत्वाद्वाच्यत्वसाधने द्रव्यत्वस्य चोपाधित्वव्युदासाय विशेषणद्वयमित्युदाहर्तव्यम् । न चोपाधिव्याप्त्योर्निरूपणे अन्योन्याश्रयता, यावत्साधनदेशमवर्तमानो यावत्साध्यदेशवर्तीत्युपाधिनिरूपणात् ॥
स च द्विधा-निश्चितः शङ्कितश्च । व्याप्तः पक्षे नास्तीत्यवधारितो निश्चितोपाधिः; यथा-विप्रतिपन्न सेवा दुःखहेतुः, सेवात्वात्, राजसेवावत्, इत्यनुमाने पापारब्धत्वम् । अयं च ईश्वरसेवायां नास्तीति शास्त्रतो निश्चितत्वाद्व्याप्तत्वाच्च निश्चितोपाधिः । पक्षावृत्तिव्याप्त्योरन्यतरस्यापि संदेहे संदिग्धोपाधिः । तत्राद्यो यथा– विप्रतिपन्नो जीव एतच्छरीरावसाने मुक्तिमान्, निष्पन्नसमाधित्वात्, शुकादिवदित्यत्र कर्मात्यन्तपरिक्षयः । स च निष्पन्नसमाधौ विप्रतिपन्ने जीवे अस्ति वा नास्ति वा इति संदिग्धत्वाच्छङ्कितोपाधिः । तद्यपि योगिनामुत्तरपूर्वाघयोरश्लोषविनाशौ भवतः, तथापि प्रारब्धकर्मणामेकशरीर एव पर्यवसानमिति न नियमः, निष्पन्नोपायस्यापि प्रतिबन्धककर्मविशेषादनेकदिवसस्थितिवदनेकशरीरपरिग्रहोपपत्तेः । तथा च सूत्रितम्-“भोगेन त्वितरे क्षपयित्वाथ संपद्यते” इति “यावदधिकारमवस्थितिराधिकारिकाणाम्” इति च । “विनिष्पन्नसमाधेस्तु मुक्तिस्तत्रैव जन्मनि” इत्यादिस्मृतिस्वनिष्पन्नसमाधेः शरीरान्तरयोगनियमपरतया प्रायिकविषया; अतो नास्य साधनव्यापकत्वम् । अपक्षनिष्ठतया निश्चितोऽपि संदिग्धव्याप्तिको यथा- विप्रतिपन्नम् अधर्मः, निषिद्धत्वात्, ब्राह्मणहिंसावदिति हिंसाव्यतिरिक्तसमस्तनिषिद्धपक्षीकारेण प्रयोगे हिंसात्वमुपाधिरिति यदि कश्चिद्ब्रूयात्, तदा अग्नीषोमीयादिषु विपक्षेषु हिंसालक्षणमस्ति वा न वेति सांख्यवेदान्तिविप्रतिपत्त्या संदिहानस्य हिंसात्वं संदिग्धव्याप्तिकं भवति । पक्षे च स्वयंपतितजन्तुभक्षणादौ निषिद्धेऽपि हिंसात्वं नास्त्येवेति निश्चितमिति ॥
उपाधेश्च साधनाभिमतधर्मे स्वगतव्याप्यत्वाध्यासहेतुत्वादुपाधिशब्दवाच्यत्वम् । तदेवं हेतोः सोपाधिकत्वे
व्याप्यत्वासिद्धिः; निरुपाधिकसंबन्धे व्याप्यत्वसिद्धिः ॥
केचित्तु व्यापकाभावाद्व्याप्याभावप्रतिपादनमुखेन साध्यव्यापकस्योपाधेर्दूषणत्वमाहुः । तदा साधनाव्यापकत्वे सति साध्यव्यापक इत्येव वक्तव्यम्, तथापि सर्वस्य पक्षेतरत्वस्य नोपाधिता, पक्षस्य साध्यविपर्ययानिश्चये तद्व्यतिरिक्तत्वस्य व्यापकत्वानिश्चयात् । नन्वतीन्द्रियोपाधिशङ्कायां कथं साध्यनिश्चयः ? मैवम्, अनुमानाप्रामाण्यवादिभिरतीन्द्रियस्य शङ्कितुमप्यशक्यत्वात्, तत्र प्रामाण्याभ्युपगमे तु क्वचिन्निरुपाधिकत्वसिद्धावन्यत्रापि तदविशेषात् । अपि च शङ्क्यमानोऽतीन्द्रिय उपाधिर्व्यापको वा न वा ? पूर्वत्र वह्न्यादेरपि सार्वत्रिकत्वप्रसङ्गः । उत्तरत्रापि नित्यो वा अनित्यो वा ? नित्यत्वे साध्यस्यापि सदातनत्वापातः । अनित्योऽपि हेतुसाध्ययोरुभयोर्व्यापकः, उभयाव्यापकः, अन्यतरव्यापको वा ? आद्ये साधनाव्यापकत्वाभावादुपाधिलक्षणहानिः । द्वितीयेऽपि उभयासंसर्गेऽप्युभयव्याप्यतामात्रेऽपि साध्यसमव्याप्त्यभावात् । तृतीयेऽपि साधनमात्रव्यापकस्य विशेषणयोरभावात् । साध्यमात्रव्यापकस्य तु साधनाव्यापकत्वं पक्षादन्यत्र हेतोः स्वव्यतिरेकेण वृत्तेर्वा पक्ष एव वा स्यात् । न प्रथमः, तथा सति साध्यव्यापकस्य हेतुमन्तरेण वृत्तौ हेतोः साध्यव्यभिचारः क्वचिदन्यत्र दृष्ट इत्युक्तं भवति । स एव प्रत्यर्थितां भजते; अन्यथा तथाभूतोपाधेरसंभवः । द्वितीये तु सर्वत्र सपक्ष एवासौ साध्यवदनुगत उपाधिः, तस्य तेनैव हेतुना पक्षे साधनाद्धेतोस्तद्व्यभिचारस्याप्यसंभवात्, पक्षे चातीन्द्रियस्य तस्याभावस्याप्यदर्शनात् । तेनापि निरुपाधिक एव संबन्ध इति । साध्यवत् साध्यसामग्रीवच्च हेतुबलादेव सोऽपि पक्षे समापतन् न स्वनिवृत्त्या साध्यं निवर्तयितुमलमिति स कथमुपाधिः ? ॥
अथ तेनैवाप्यतीन्द्रियेणातीन्द्रियोपाध्यन्तरप्रयुक्तः संबन्ध इति शङ्क्येत, तथा सत्यनवस्थापातः । अपि च
उपाधित्वेन शङ्क्यस्य संबन्धो निरुपाधिकः ।
अन्यथोपाधिता नास्ति तद्वदन्यत्र गृह्यताम् ॥
तत्त्वरत्नाकरे तु एवमुपाधेः स्वरूपं प्रमाणमवान्तरभेदो दूषणत्वप्रकारश्चोपपादितः । यथा -
“केन चिद्यस्य संबन्धे योऽवच्छेदक एष हि ।
तस्योपाधिर्यथा वह्नेरार्द्रैधोधूमसंगमे ।
श्रोत्रत्वयोगे नभसो यथा वा कर्णशष्कुली ।
संसारयोगे जीवस्य कर्माविद्यादि वा यथा ॥
साध्यव्यापकः साधनाव्यापक इति तं लक्षयन्ति । केचित् साधनाव्यापकः साध्यसमव्याप्तिरिति च-” इत्यादिना स्वरूपं निदर्शितम् । “किमस्य ज्ञापकम् ? साधनस्य क्वचित् साध्यासंबन्धख्यापकम्, संबन्धग्रहणवेलानुयायिस्वरूपवैकल्यं वा । असंबन्धख्यापकं च व्यभिचारदर्शनम् । तच्च साध्यविरुद्धधर्मकतया निश्चिते प्रमाणबाधिते पक्षे विपक्षे वा हेतोर्दर्शनम् । अग्नीषोमीयशास्त्रबाधिते पक्षे दृष्टं हि हिंसात्वं निषिद्धत्वमात्मन उपाधिं क€ल्पयति । प्रमेयत्वं च नित्यात्मादिविपक्षे दृष्टमनित्यत्वसाधने कृतकतवादिकमुपाधीकरोति । सपक्षेषु च यावद्रूपविशिष्टतया साधनं साध्यसंबन्धित्वेन दृष्टम््; तदन्यतररूपविकलं चेत् पक्षे दृश्यते, तदा व्याप्तरूपाप्रतयभिज्ञानात् सर्वरूपविशिष्टमेवोपाधयति; यथा-भावितनयश्यामलिमनि अनुमेये मित्रापुत्रत्वं भूतपुत्रेषु दृष्टं शाकाद्याहारपरिणामविशेषम् । एवंजातीयके रूपवैकल्यकल्पितोपाधिके हेतोवप्रयोजकत्वव्यपदेशः परीक्षकाणाम्; व्यभिचारकल्पितोपाधिकयोस्तु बाधितो विरुद्धोऽनैकान्तिक इति-” इत्या€दिना उपाधेः प्रमाणावान्तरभेदा€दिकं प्रपञ्चितम् । एवं चोपसंहृतम्-“तदेष संक्षेपः-व्यभिचार एव हि प्रतिबन्धाभावः उपाधिरेव व्यभिचारनिदानम् । प्रमाणनिश्चित एवोपाधित्वेन शङ्कनीयः । साधने सोपाधिः साध्ये निरुपाधिरेवोपाधित्वेन निश्चेयः । सर्वशङ्कातिप्रसङ्गपाटनपटीयांश्च तर्कः” इति । तदेवं निरुपाधिकसंबन्धं व्याप्यमिति सिद्धम् । व्याप्यं साधनं लिङ्मित्यनर्थान्तरम् ॥