मूलम् - 2.1.5
॥ व्याप्तिविभागः ॥
व्याप्तिर्द्विधा–अन्वयव्यतिरेकभेदात् । साधनविधौ साध्यविधिरूपेण प्रवृत्ता व्याप्तिरन्वयव्याप्तिः; यथा-यो धूमवान्, सोऽग्निमानिति । साध्यनिषेधे साधननिषेधरूपेण प्रवृत्ता व्यतिरेकव्याप्तिः; यथा-योऽनग्निः, स निर्धूम इति ॥