मूलम् - 2.1.4
॥ व्याप्तिग्रहोपायनिरूपणम् ॥
यथोपलम्भं भूयोभिर्दर्शनैर्गम्यते तु सा ।
सकृदेवानवच्छिन्नसंबन्धो न हि भासते ॥
तदुक्तं वरदविष्णुमिश्रैः- “तस्मादनुमानाङ्गभूता व्याप्तिर्भूयोदर्शनावसेयैव” इति ॥
तत्त्वरत्नाकरे तु सा सकृद्दर्शनसाध्यैवोक्ता-
“संबन्धोऽयं सकृद्ग्राह्यः प्रतीतिस्वरसात् तथा ।
प्रतीतयो हि स्वरसाद्धर्मधर्म्यवधीन् विदुः ॥” इत्यादिना ।
सकृदेव च सर्वधूमव्यक्तिग्रहणमपि सामान्यरूपैक्यादुपपादितम् । असंनिकृष्टेष्विन्द्रियसंप्रयोगश्च संयुक्ताश्रिताश्रयत्वमित्युक्तम्- “संनिहितधूमादिव्यक्तिसंयुक्तस्येन्द्रियस्य तदाश्रितधूमत्वादिः संयुक्ताश्रितः, तदाश्रयत्वेन व्यक्त्यन्तराणि संप्रयुक्तानि” इत्यादिना,
“तृतीयः संनिकर्षोऽयं संनिकर्षनिरूपणे ।
अनुक्तस्तत्प्रमेयस्य व्याप्तेरत्रैव साधनात् ॥” इत्यन्तेन॥
इदं तु सर्वप्रत्यक्षत्वप्रसङ्गभीरवो वैभवं मन्यन्ते, पूर्वपूर्वसहदर्शनजनितसंस्कारप्रचयसहकृते त्वन्तिमे प्रत्यक्षे सकृदेव सामान्यतस्तज्जातीयसमस्तसंग्राहिणि सिद्धे सामग्रीमहिम्नाप्यसंबद्धप्रकाशनायोगात् । संभावितसंबन्धप्रकाशनमात्रपरत्वे तु नातिप्रसङ्गः । एवमस्तु सकृद्दर्शनेन भूयोदर्शनेन वा व्याप्तिग्रहः ।
तत्राप्यन्तिममन्यद्वा ग्राहकं बाह्यं मानसं वास्तु । तत्र सर्वैरपि भूयोदर्शनं न परित्याज्यम् । तत्रापि भूयोदर्शनजनितसंस्कारसमुदायाधीनविमर्शविशेषेणोपाधिसंभावनामुच्छिन्दता निःशङ्कसंबन्धनियमसिद्धिरिति च सिद्धम् । अतः परं तु विकल्पनमायासायैवेति विरम्यते ॥
तादात्म्यतदुत्पत्तिभ्यामेवाविनाभाव इति सौगताः । यथाहुः-
“कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् ।
अविनाभावनियमो दर्शनान्न नदर्शनात् ॥” इति;
तदसत्, अकार्यानात्मभूतकृत्तिकोदयादिना अकारणानात्मभूतरोहिण्युदयाद्यनुमानात् । कथं च तादात्म्ये लिङ्गलिङ्गिभावः ? तथात्वेन वा भेदे कथं तत् ? यदि च शिंशपात्ववृक्षत्वयोरैक्यम्, सर्वोऽपि वृक्षः शिंशपैव स्यात्, न वा कश्चित् ॥
किं च
“सति भावो न कार्यत्वं किं तु सत्येव भाविता ।
तस्माच्चेदविनाभावः स्यादात्माश्रयणं ध्रुवम् ॥