मूलम् - 2.1.3
॥ व्याप्तिनिरूपणम् ॥
अनधिकदेशकालनियमं व्याप्यम् । अन्यूनदेशकालवृत्ति व्यापकम् । तदाहुः-
“यो यस्य देशकालाभ्यां समो न्यूनोऽपि वा भवेत् ।
स व्याप्यो व्यापकस्तस्य समो वाभ्यधिकोऽपि वा ॥” इति ॥
देशकालनियमश्च क्वचिद्देशैक्ययौगपद्याभ्याम्; यथा-रसगुडत्वयोः । क्वचिद्यौगपद्यमात्रेण; यथा-गन्तृच्छायासूर्यस्थितिविशेषयोः । क्वचिद्देशैक्येनैव; यथा-पाकतज्ज्न्यगुणयोः । क्वचिद्भिन्नदेशतया भिन्नकालतया च; यथा-दिवा निशाकरास्तगमनातिक्रान्तसमुद्रक्षोभयोरित्यादि ॥
अत्रेदं तत्त्वम्-यादृग्रूपस्य यद्देशकालवर्तिनो यस्य यादृग्रूपेण यद्देशकालवर्तिना येनाविनाभावः, तदिदमविनाभूत व्याप्यम्; तत्प्रतिसंबन्धि व्यापकमिति । तेन निरुपाधिकतया नियतः संबन्धो व्याप्तिरित्युक्तं भवति ॥