02 अनुमानस्यातिरिक्तत्वस्थानम्

मूलम् - 2.1.2

॥ अनुमानस्यातिरिक्तत्वस्थानम् ॥
अस्त्वनुमानं प्रमाणम्; तथापि प्रत्यक्षान्तर्भूतं स्यादिति चेन्न, साक्षादिन्द्रियव्यापारसाध्यत्वाभावात् । नापि लिङ्गग्रहणावान्तख्यापारद्वारेन्द्रियजम्, इन्द्रियव्यापारोपरमेऽपि स्मर्यमाणलिङ्गाद्व्यापकप्रतीतेः । नापि संस्कारादिप्रत्यासत्त्या मानसता, बाह्येन्द्रियग्राह्येष्वपि तत्तत्प्रत्यासत्त्या मानसप्रत्यक्षत्वप्रसङ्गात् । न चैतदिष्टम्, बाह्यान्तरप्रत्यक्षविभागायोगात्, बाह्यार्थेषु च मनसः स्वातन्त्र्यादर्शनात् । यत्परतन्त्रता मनसः, तत् पृथक्प्रमाणमित्युच्यते । वेद्यांशपारोक्ष्यं चानुमितेरैन्द्रियिकत्वविरोधि । परंपरया प्रत्यक्षमूलत्वमात्रेण प्रत्यक्षत्वोपचारं तु न वारयामः । न चानुमिति स्मृतिमात्रमिति वक्तुं शक्या, अधिकविषयत्वात् । न चानेकसंस्कारसंभेदेन तत्, अनुभूतानेकस्मरणयौगपद्यसंभवेऽपि वैशिष्ट्यविशेषस्याननुभूतस्य स्मृत्ययोगात् । शाब्दत्वं तु असंभावितमेव ।व अतः सिद्धम्-अनुमानं प्रमाणं प्रत्यक्षादिबहिर्भूतं चेति ॥