मूलम् - 2.1.1
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
॥ श्रीः ॥
॥ अनुमानाध्यायः ॥
॥ प्रथममाह्निकम् ॥
अथ प्रत्यक्षमूलत्वादागमज्येष्ठभावतः ।
तयोरन्तरतः साङ्गमनुमानं प्रसाध्यते ॥
व्याप्यस्य व्याप्यत्वानुसंधानाद्व्यापकविशेषप्रतीतिरनुमानम् । तत् प्रमाणम्, कारणदोषबाधकप्रत्ययरहितत्वात् ॥
किं च
अनुमानाप्रमाणत्वं नाध्यक्षेणैव गम्यते ।
नानुमानेन तेनैव तद्विरोधप्रसङ्गः ॥
न च तत्संशयाकारं सर्वलोकविरोधतः ।
न च किंचेति दुर्ज्ञानं तथात्वेनैवव निर्णयात् ॥
संदेहादनुमेयादौ प्रवृत्तिरिति वादिनः ।
प्रत्यक्षेऽपि तथैव स्याद्बाधाबाधादिसाम्यतः ॥
यत्तु चार्वाकेणोच्यते -
“विशेषेऽनुगमाभावात् सामान्ये सिद्धसाधनात् ।
तद्वतोऽनुपपन्नत्वादनुमानकथा कुतः ॥ " इति,
अन्यत्र च-
“विशेषेऽनुगमाभावः सामान्ये सिद्धसाधनम् ।
अनुमाभङ्गपङ्केऽस्मिन्निमग्ना वादिदन्तिनः ॥” इति;
तत् स्ववचनविरुद्धम्, अनुमाननिरासाय हेतूपन्यासात्, तस्य च हेतोः स्वसाध्यव्याप्त्यनभ्युपगमे अनुमानस्य तेन बाधितुमशक्यत्वात्, अभ्युपगमे तत्रापि “विशेषऽनुगमाभावः” इत्यादिप्रसङ्गात् ॥
न व्याप्तिर्नियमायोगादिति व्याप्तमिदं न वा ।
व्याप्तं चेत् स्वीकृता व्याप्तिर्न व्याप्तं चेन्न दूषणम् ॥
सर्वस्य व्यभिचारित्वे व्यभिचारो न सिध्यति ।
एकस्याव्यभिचारित्वे न सर्वव्यभिचारिता ॥
ततश्च सामान्यसिद्धैव व्यार्पिहैतोः पक्षधर्मताख्यसहकारिसाहित्यात् साध्यविशेषमुपस्थापयतीति दर्शनबलादभ्युपेयम् । अप्रमाणत्वपक्षेऽप्यन्वयव्यातिरेकावसिता सैव हि सामग्री; अन्यथा अनुमानतो विशेषप्रतीतिमात्रस्याप्यनुदयप्रसङ्गात् । यथा च सामान्यधी सामग्रीमध्यपातिनी विशेषबुभुत्सादिहेतुः, तथा सर्वविशेषसंग्राहिसामान्यव्याप्तिधीरपि विशेषानुमितिहेतुरिति यथादर्शनमाद्रियेथाः । स च साध्यस्य विशेषः
पक्षसंबन्धिमात्रात्मा त्रय्यन्तविद्भिरिष्यते । तदतिरिक्तविशेषानुमाने त्वनुगमाभावविरोधादयो दोषाः स्युः । अत एव च
वयमत्यन्तातीन्द्रियवस्त्वनुमानं नेच्छामः । तदेतत् सूत्रकारैरेव “शास्त्रयोनित्वात्” इति जगत्कर्तुः शास्त्रैकप्रमाणकत्वं वदद्भिः प्रदर्शितम् ॥