15 शाब्दापरोक्षनिरासः

मूलम् - 1.2.7

॥ शाब्दापरोक्षनिरासः ॥
शब्दजन्यमपि प्रत्यक्षमस्तीति त एव वर्णयन्ति; तदप्ययुक्तम्, व्याघातात् । न हि परोक्षजननस्वभावतया सिद्धा सामग्री विशेषाभावे क्वचित् स्वभावमतिपतेत् । न चैकजातीयसामग्रीतः प्रसूतं कार्यं विचित्रं स्यात्, एकयैवव सामग्र्या सर्वजातीयोत्पत्तिप्रसङ्गात् एकस्य कार्यस्य विरुद्धजातियोगप्रसङ्गाच्च । “दशमस्त्वमसि” इत्यादिदृष्टान्तेऽपि त्वमर्थमात्रं प्रत्यक्षम् । ‘दशमोऽहम्’ इति प्रत्ययो हि नेन्द्रियस्वातन्त्र्येणोदेति, किंतु पुरुषवचनानुरोधेन । तन्मूलेऽपि चेत् प्रत्यक्षता, एवम् ‘धर्मवांस्त्वमसि’ इति कार्तान्तिकोपदेशादौ ‘तादृशोऽहमस्मि’ इति बोधे धर्मादेरपि प्रत्यक्षत्वप्रसङ्गः । ततश्चाप्रत्यक्षमिति जगति किंचिन्न स्यात्, प्रत्यक्षभूतं यत्किंचिदुद्दिश्य विशेषणतयैव सर्वस्य प्रत्यक्षत्वोपपत्तेः । पूर्वावगतदशमभावं तु पुरुषं प्रत्युपदेशे भाषराशिप्रविष्टमषीन्यायेन पूर्वापरापरोक्षणीनैरन्तर्येण मध्यवर्तिशब्दजन्यधियोऽपरोक्षत्वव्यवहारः कस्यचित् स्याद्वा न वा । अत एव तत्त्वमस्यादिशब्दः स्वविषयगोचरप्रत्यक्षज्ञानजनकः, स्वतोऽपरोक्षार्थगोचरत्वात् “दशमस्त्वमसि” “संवित् स्वप्रकाशा” इत्यादिवाक्यवत् इत्याद्यनुमानानि निरस्तानि, दश्€ामत्वस्वप्रकाशत्वादिविशिष्टाकारेण दृष्टान्तेष्वपरोक्षज्ञानजननासिद्धेः । तथा विगीतः शब्दो न स्ववाच्यगोचरप्रत्यक्षधीजनकः, शब्दत्वात्, संप्रतिपन्नवत्, इत्याद्यपिप्रतिप्रयोक्तव्यम् । उपलम्भविरोधशाब्दप्रत्€यक्षलक्षणसंकरादिप्रसङ्गोऽत्र विपक्षे बाधकः । नैवं पूर्वस्य, शब्दजन्यप्रत्यक्षमन्तरेणापि योगजादृष्टजनितसाक्षात्कारात् प्रणिधानविशेष्€ाप्रसादितपरमात्मसंकल्पाद्वा निःश्रेयससिद्धेरिति ॥
प्रत्यक्षं चिदचिन्मयं जगदिदं यस्येत्यनुश्रूयते
यश्चानन्यधियामनन्तविभवः प्रत्यक्षतामश्नुते ।
यश्चैको युगपत्सदा स्वत इदं विश्वं दरीदृश्यते
प्राज्ञं तं प्रतिपन्नमोक्षणविधादक्षं दिदृक्षेमहि ॥
इति
श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
न्यायपरिशुद्धौ प्रत्यक्षाध्याये
द्वितीयमाह्निकम् ॥
समाप्तश्च प्रत्यक्षाध्यायः ॥