मूलम् - 1.2.6
॥ सविकल्पकनिरूपणम् ॥
न च सविकल्पकं न प्रत्यक्षमिति वाच्यम्, साक्षात्काराबाधाद्यविशेषात् ॥
सहकारिविशेषेण न वैजात्यं प्रसज्यते ।
तज्जातीये तु यत्किंचिद्वैषम्यं संभवेदपि ॥
यत्र दृश्येत वैजात्यं तथा तत्राभ्युपेयते ।
तावता नैव सर्वत्र भवेदेतस्य कल्पनम् ॥
केवलेन्द्रियजं चापि न किंचिज्ज्ञानमिष्यते ।
सहकारिविशेषां हि विभिद्यन्ते प्रतीन्द्रियम् ॥
अतः संस्कारसंभेदेऽप्यपरोक्षत्वयोगतः ।
प्रत्यक्षत्वं विकल्पस्य न क्वचिद्विनिवर्तते ॥
“निर्विकल्पकमेकजातीयेषु द्रव्येषु प्रथमपिण्डग्रहणम्” इत्यादिभाष्यं तु उदाहरणपरं योज्यम् । अत एव हि श्रीविष्णुचित्तैरुक्तम्- “संस्कारोद्बोधसहकृतेन्द्रियजन्यं ज्ञानं सविकल्पकम्, एकजातीयेषु प्रथमपिण्डग्रहणम् द्वितीयादिपिण्डग्रहणेषु प्रथमाक्षसंनिपातजं च ज्ञानं निर्विकल्पकम्” इति । अन्यत्र चोक्तम्- “केवलचक्षुरादीन्द्रियजन्यं निर्विकल्पकम्” इत्यादि ॥
यत्तूक्तं तत्त्वरत्नाकरे -
“विशेषणानां स्वायोगव्यावृत्तिरविकल्पके ।
सविकल्पेऽन्ययोगस्य व्यावृत्तिः संज्ञिता तथा ॥” इति,
तत्रापि संस्कारनिरपेक्षत्वसापेक्षत्वयोः प्रदर्शनपरत्वं ग्राह्यम् । प्रत्यक्षस्य चैवं विभागोऽभिहितः- “द्विविधं चैतत् प्रत्यक्षम्- अर्वाचीनमनर्वाचीनं च । युगपदशेषविषयसाक्षात्कारक्षममनर्वाचीनम् । तत् योगिमुक्तेश्वराणां प्रभावविशेषाधीनमुपपादयिष्यते” इत्यादि ॥
अत एव कुदृष्टीनां सन्मात्रग्राहि प्रत्यक्षमित्यविलक्षजल्पितं निरस्तम् । क्रमयौगपद्यादिदूषणं तु भ्रान्तिविकल्पेऽपि समानम् । भ्रान्तिरूपोऽपि हि विकल्पः क्ष्ाणिकत्वान्न विरम्य व्यापर्तुमलम् । न च पूर्वज्ञानवार्तां जानाति । न च स्वयं धर्मिप्रतियोगिग्रहणाभावे भेदग्रहणं मन्यसे । तथापि यदि कल्पना भेदविशिष्टं युगपद्गृह्णाति, का प्रत्यक्षे सर्पमृतिः ? अतो धर्मिवद्योग्यत्वाज्जात्यादिरूपभेदोऽपि युगपद्ग्राह्येः । अभेद इव भेदोऽपि स्वरूपतः प्रतीतौ न प्रतियोगिसाकाङ्क्षः; भेदव्यवहारस्त्वभेदव्यवहारवत् तत्साकाङ्क्ष । अतः प्रथममेव भेदधीर्युक्ता । अत एव धर्मधर्मिणोर्धर्मिप्रतियोगिनोरन्येषां च प्रतीतावन्योन्याश्रयो निरस्तः । ततश्च व्युपत्तेस्तद्व्यवहारेऽपि न तत्प्रसङ्गः । भेदशब्देन व्यवहारस्य तु प्रतिसंबन्धिनिरूपिताकारे व्युत्पन्नत्वात् तदपेक्षा । भेदत्वं हि भेदानां प्रतियोगिना निरूप्यम्
न तु जात्यादिलक्षणं स्वरूपम्; यद्ग्रहो यत्र यदारोपविरोधी, स हि तस्य तस्माद्भेदः; गोत्वादि च गृह्यमाणं स्वस्मिन् स्वाश्रये चाश्वत्वाद्यारोपं निरूणद्धीति स्वस्य स्वाश्रयस्य च स्वयमेव तस्माद्भेदः ॥
अपि च प्रतियोगिसापेक्षत्वनिरपेक्षत्वलक्षणविरुद्धधर्माध्यासेन भेदात् स्वरूपभेदग्रहणैक्यां न संभवतीति वदन् भेददुषणार्थमेव भेदं साधयतीति स्ववचनविरोध इति ॥