13 नैयायिकनिर्विकल्पकनिराकरणम्

मूलम् - 1.2.5

॥ नैयायिकनिर्विकल्पकनिराकरणम् ॥
उभयविधमप्येतद्विशिष्टविषयमेव । अविशिष्टवस्तुग्राहिणो ज्ञानस्यानुपलम्भात् अनुपपत्तेश्च । बालमूकतिर्यगादिविज्ञानमपि हि संज्ञाविकल्परहितमपि विशिष्टवस्तुविषयमेव, अन्यथा तेषां हेयोपादेयविभागपूर्वकप्रवृत्तिशेषानुपपत्तेः । विप्रतिपन्नं विशिष्टज्ञानं विशेषणज्ञानपूर्वकम्, विशिष्टज्ञानत्वात्, सुरभि चन्दनमित्यादिविशिष्टज्ञानवदिति चेन्न, एकसामग्रीवेद्यविशेषणेषु तन्निरपेक्षत्वात्, स्वरूपसंबन्धपक्षे स्वरूपग्रहेणैव संबन्धस्यापि ग्रहणात्, तावतैव विशिष्टग्रहणसिद्धेः, समवायवादेऽपि तस्यैव गृह्यमाणस्य विशेषणविशेष्यभावरूपत्वात्, समवायविशिष्टप्रत्यये तथैवाभ्युपगमात्, तद्वैशिष्ट्यग्रहे च गुणवैशिष्ट्यग्रहस्यावर्जनीयत्वात् । न च समवायस्य सविकल्पकैकविषयतेति वाच्यम्, निर्विकल्पके धर्मवद्धर्मिवच्च तत्संबन्धस्याप्यैन्द्रियिकत्वाविशेषेण ग्रहणसंभवात्, योग्यस्य संनिकृष्टगृह्यमाणसंबन्धिनः संबन्धस्याग्रहणानुपपत्तेः, अन्यथा नित्यं तदग्रहापातात् । प्रथमाक्षसंनिपातजा बुद्धिर्विशिष्टविषया, बुद्धित्वात्, संप्रतिपन्नवत्, इत्याद्यपि चिन्त्यम् ॥