मूलम् - 1.2.4
॥ प्रत्यक्षलक्षणम् ॥
तत्र साक्षात्कारिप्रमा प्रत्यक्षम् । साक्षात्त्वं च जातिरूप उपाधिरूपो वा कश्चित् ज्ञानस्वभावविशेषः स्वात्मसाक्षिकः ॥
ज्ञातकारणजज्ञानस्मृतित्वरहिता मतिः ।
अपरोक्षेति निष्कर्षे नाव्याप्यादिप्रसञ्जनम् ॥
प्रमेयसंग्रहे त्वेवमुक्तम्- “साक्षादनुभवः प्रत्यक्षम् । साक्षात्त्वं जातिः-” इत्यादि । तत्त्वरत्नाकरेऽप्येवमुक्तम्-
“अपरोक्षप्रमाध्यक्षमापरोक्ष्यं च संविदः ।
व्यवहार्यार्थसंबन्धिज्ञानजत्वविवर्जनम् ॥” इति॥
पारोक्ष्यं चैवमुक्तम्- “पारोक्ष्यं व्यवहार्यानन्तर्गतवस्तुवेदनापेक्षा । तदनन्तर्गतलिङ्गाद्यपेक्षा पारोक्ष्यमनुमादौ” इति । वरदविष्णुमिश्रैर्मानयार्थात्म्यनिर्णये त्वेवमुक्तम्- “अपरोक्षप्रमा प्रत्यक्षम् । प्रमाया आपरोक्ष्यं नाम विशदावभासत्वमिति ब्रूमः । किमिदं वैशद्यं नाम ? असाधारणाकारेण वस्त्ववभासकत्वम्–” इत्यादि ॥
साक्षात्त्वं द्विधा-नित्यं चानित्यं च । ईश्वरनित्यज्ञानादिनिष्ठं नित्यम् । अस्मदादिज्ञाननिष्ठं त्वनित्यम् । अस्मदादिप्रत्यक्षं द्विधा- योगिप्रत्यक्ष्ामयोगिप्रत्यक्षं चेति । तत्र योगिप्रत्यक्षं प्रकृष्टादृष्टविशेषजम् । तत् युक्तावस्थायां मनोमात्रजन्यम् । वियुक्तावस्थायां तु बाह्येन्द्रियजन्यमपि । तच्च बुभुत्सादिप्रतिनियतमागमैकसिद्धं च । भावनाबलजमात्रं जगत्कर्तरि प्रत्यक्षं प्रतिक्षिप्तं शास्त्रयोन्यधिकरणे, अन्यत्र भाष्यकारैरेव साक्षाद्योगिप्रत्यक्षस्य कण्ठोक्तेः, तस्य संभवतोऽप्यागमिकेश्वरज्ञानमूलस्यागमानुवादत्वापादनाशक्त्या तत्रौदासीन्यात्, धर्मादयः कस्यचिदिन्द्रियग्राह्याः, प्रमेयत्वात्, घटवत्, मीमांसकानामप्रत्यक्षत्वाद्वा, अस्मत्सुखादिवदित्याद्यनुमानानां विपक्षे बाधकविरहादिभिराभासत्वात्, आगमबाधप्रसङ्गस्यैव पुरस्कारे त्वागमेनैव चरितार्थत्वात्; अन्यथा धर्मादयः कस्यचिच्चक्षुर्ग्राह्या इति वदतो बौद्धस्य किं प्रतिवक्ष्यसि । यश्चानुव्यवसाये सविषयव्यवसायप्रत्यक्षतामिच्छति, तस्यास्मदादिष्वपि धर्मादिव्यवसायानुव्यवसाये धर्मादिप्रत्यक्षत्वसिद्धौ कथं तदतिरिक्तयोगिप्रत्यक्षानुमासिद्धिः । तद्व्यवच्छेदेन प्रयोगेऽपि सौगतोक्तचाक्षुषत्वादिसाधनप्रसङ्ग स्यादिति । स चादृष्टविशेषो योगाभ्यासतपश्चार्यादिभिर्जायते । तस्मादार्षाभिमतमपि प्रकृष्टादृष्टजत्वाविशेषात् तत्रैवान्तर्भूतम् । यथोक्तं प्रज्ञापरित्राणे -
“अत्रेन्द्रियानपेक्षं यज्ज्ञानमर्थावभासकम् ।
दिव्यं प्रमाणमित्येतत् प्रमाणज्ञाः प्रचक्षते ॥
परमेश्वरविज्ञानं मुक्तानां च धियस्तथा ।
संजयार्जुनवाल्मीकिप्रभृत्यार्षधियोऽपि तत् ॥” इति ॥
इन्द्रियानपेक्षमिति-अदिव्येन्र्दियानपेक्षमित्यर्थः । अत एव हि गीयते- “दिव्यं ददामि ते चक्षुः-” इत्यादि । यद्वापरमेश्वरादिविज्ञानसहपाठादिभिस्तथैव मन्तव्यम् । अनन्तरं चैवमुक्तम्–
“स्वाभाविकस्य ज्ञानस्य स्वतः सर्वावभासिनः ।
अविद्याप्रतिबन्धस्य प्रतिबन्धोऽक्षयोगतः ।
अविद्याहानितो मुक्तपुरुषाणां हि संविदाम् ।
स्वाभाविकस्वरूपेण्ा निखिलार्थावभासिता ॥
प्रतिबन्धकभावस्य प्रत्युत्तम्भकभाविना ।
परेणानुगृहीता धीर्ऋषीणां सर्वभासिका ॥” इति ॥
मानसप्रत्यक्षमप्यस्मदादीनां नास्त्येवेति वृद्धसंप्रदायः, आत्मस्वरूपस्य तद्धर्मभूतज्ञानस्य च स्वयंप्रकाशत्वात्, सुखदुःखेच्छाद्वेषप्रयत्नानां तत्तद्धेतुतयाऽभिमतज्ञानविशेषानतिरेकस्य वेदार्थसंग्रहे समर्थितत्वात्, नित्यत्वादिविशिष्टास्मदाद्यनुभवस्य शास्त्रादिप्रसिद्धत्वात्, पूर्वानुभवादिज्ञानस्य स्मृतिरूपत्वात्, “आत्मसुखादिव्यतिरिक्तबहिर्विषयेषु तस्य बाह्येन्द्रियानपेक्षप्रवृत्त्यनुपपत्तेः” इति शास्त्रयोन्यधिकरणभाष्यस्यान्वारोहेणाप्युपपत्तेरिति ॥
ततश्चादिव्यबाह्येन्द्रियप्रसूतं ज्ञानमयोगिप्रत्यक्षम् । तत् सामान्यादृष्टालोकविशेषादिसहकृतेन्द्रियजन्यं दृष्टसामग्रीविशेषात् प्रतिनियताविषयम् । तत् श्रोत्रादीन्द्रियासाधारणकारणभेदात् पञ्चधा ॥
विषयेन्द्रियसंबन्धश्च-द्रव्येषु संयोगः, द्रव्याश्रितेषु रूपादिषु तु संयुक्ताश्रयणम् ।
यथोक्तं तत्त्वरत्नाकरे-
“अत्र वृद्धा विदामासुः संयोगः संनिकर्षणम् ।
संयुक्ताश्रयणं चेति यथासंभवमूह्यताम् ॥” इति ॥
पुनः प्रत्यक्षं द्विधा-सविकल्पकं निर्विकल्पकं चेति । सप्रत्यवमर्शं प्रतयक्षं सविकल्पकम् । तद्रहितं प्रत्यक्षं निर्विकल्पकम् ॥