11 संशयनिरूपणम्

मूलम् - 1.2.3

सामान्यधर्मिस्फुरणे सति अप्रतिपन्नतद्विरोधप्रतिपन्नमिथोविरोधानेकविशेषस्फुरणं संशयः । यथा -ऊर्ध्ववस्तुमात्रग्रहणे सति तद्विरोधितयाऽननुसंधीयमानयोर्मिथःस्फुटविरोधयोः स्थाणुत्वपुरुषत्वयोः स्फुरणम् - अयं स्थाणुर्वा पुरुषो वेति । मिथो विरोधाग्रहणे तयोर्विकल्पो न स्यात् । तत एव “डोलावेगवदत्र स्फुरणक्रमः” इत्येके, एकस्मिन् युगपदन्योन्यप्रतिक्षेपस्य धीविरुद्धत्वात् । अत्र “चैतन्यस्य विषयेण दृढसंयोगो हि
निश्चयः । तस्यैव बहुभिर्युगपददृढसंयोगः संशयः” इत्यात्मसिद्धिग्रन्थोऽपि न विरुद्धः; इतरथा ज्ञानार्थयोर्दृढादृढसंश्लेषनिरूपणानुपपत्तेः । युगपदिति तु शैघ्य्रमात्रपरम् । यौगपद्याभ्युपगमेऽपि अदृढत्वं परस्परप्रतिक्षेपप्रकारविशेष एव; अन्यथा अयमूर्ध्वो वा स्थाणुर्वेत्यादिसंशयप्रसङ्गः । यद्यप्यविरुद्धेष्वपि केषुचिदधर्मादिमूलकविरोधग्रहणात् केषांचिदीदृशोऽपि संशयः संभवति; यथा - आत्मा ज्ञानं वा ज्ञाता वेति, ज्ञानं धर्मो धर्मि वेत्यादि; तथाप्याभिमानिकं परस्परप्रतिक्षेपित्वं तत्राप्यस्त्येव । अस्य च समानधर्मविप्रतिपत्तिभ्यामेवासाधारणकारणाभ्यामधर्मादिसहिताभ्यां यथासंभवमुद्भवः । तदुक्तं तत्त्वरत्नाकरे - “कश्चैष संशयः कतिविधश्च? एकस्मिन् धर्मिणि विरुद्धानेकविशेषावभासः संशयः । स च द्विविधः -” इत्यादिना । तत्र समानधर्मः साधारणो धर्मः । तज्जनितो यथा - ऊर्ध्वत्वाविशेषात् स्थाणुर्वा पुरुषो वेति । अगृह्यमाणबलतारतम्यविरुद्धानेकज्ञापकोपस्थापनमिह विप्रतिपत्तिः । सा च सजातीयविजातीयाभासरूपद्वित्रिचतुरादिज्ञापकभेदाद्बहुप्रकारा । प्रत्यक्षतदाभासविप्रतिपत्तेः संशयो यथा - चक्षुषा समुखं प्रतिभाति दर्पणतलम्, स्पर्शनेन त्वन्यथा; किमिदं समुखं निर्मुखं वेति । अनुमानतदाभासविप्रतिपत्तेर्यथा - धूमवत्त्वात् पर्वतोऽग्निमान्, निरालोकत्वादनग्निरित्यत्र साग्निरनग्निर्वेति । श्रुतिविप्रतिपत्तेर्यथा - भेदाभेदव्यपदेशाभ्यां जीवो ब्रह्मणो भिन्नोऽभिन्नो वेत्यादि । वादिविप्रतिपत्तेर्यथा - वैशेषिकौपनिषदवाक्यद्वयश्राविणो मध्यस्थबुद्धेः किमिन्द्रियाणि भौतिकानि, आहंकारिकाणि वेति । एवं पामरादिवाक्यविप्रतिपत्तेरपि - नद्यास्तीरे फलानि सन्ति, न सन्ति वेत्यादि । प्रत्यक्षानुमानविप्रतिपत्तेर्यथा - चक्षुषा पीतशङ्खभ्रमे शङ्खत्वाच्च सितत्वानुमाने, किमयं शङ्खः पीतः सितो वेति ।
प्रत्यक्षागमविप्रतिपत्तेर्यथा - किमहमर्थः स्थूलोऽणुर्वेऽति । अनुमानागमविप्रतिपत्तेर्यथा - किं परमाणूपादानं जगत्, उत ब्रह्मोपादानमिति एषा दिक् ॥
केचित्तु विप्रतिपत्तिशब्दमात्रे मुह्यन्तो वादिविप्रतिपत्तिमेव विप्रतिपत्तिं मन्यन्ते, तदयुक्तम्, विशेषाभावात् ॥
यदुक्तं प्रज्ञापरित्राणे -
“साधारणाकृतेर्दृष्ट्याऽनेकाकारग्रहात्तथा ।
विपश्चितां विवादाच्च त्रिधा संशय इष्यते ॥” इति ;
तदपि नूनं परानुकारमात्रम्, द्वितीयतृतीययोरकैराश्यात् ग्राहकावान्तरभेदस्यातिप्रसङ्गित्वात् अप्रयोजकत्वाच्च । अत्र चानेकाकारग्रहो नानाकारग्रहो विवक्षितः, न त्वनेकव्यावृत्तासाधारणाकारग्रहः, अनन्तरम्
“अर्थेष्वेष्वविशेषेण द्व्याकारग्राहिधीद्वयम् ।”
इत्यादिना तस्यैवोदाहरणात् ॥
असाधारणधर्मादपि केचित् संशयमाहुः; यथा - गन्धवत्त्वात् पृथिवी नित्या अनित्या वेत्यादि । अत्र गन्धवत्त्वस्य नित्यात्मादिव्यावृत्तेः कृतकत्वादिवदनित्यत्वस्मारकत्वम्, अनित्याबादिव्यावृत्तेर्निरवयवत्वादिवन्नित्यत्वस्मारकत्वमिति विरुद्धविशेषद्वयान्वितसमानधर्मस्येव तदुभयव्यावृत्तासाधारणधर्मस्यापि संशयहेतुत्वमुपपन्नमिति, तदयुक्तम्; न हि तत्र गन्धवत्त्वादिना संशयोत्पत्तिः, अपि तु व्यतिरेकनिरूपणविलम्बात्प्रागेव गन्धादिविशिष्टद्रव्यस्य नित्यानित्यसाधारणतया भासमानैर्द्रव्यत्वादिभिरेव । तत्रान्यतरशिरोनिर्णिनीषया विशेषकधर्मचिन्तायां तु गन्धवत्त्वमुभयानन्वितत्वादुभयोरप्यनिष्कर्षकमित्येतावदेव चिन्त्यते । केवलव्यतिरेकिभङ्गे चैतद्विशदं भविष्यति । गन्धवत्त्वात् पृथिवी नित्या वा अनित्या वेति तु यदा कश्चिद्व्यवहरेत्, तत्रापि गन्धवत्त्वं नित्यत्वानित्यत्वयोरन्यतरस्य प्रयोजकं न वा इत्येव संदेहः । सोऽपि धर्मत्वादिलक्षणसमानधर्मादेव । अथ नित्यव्यावृत्तधर्मवत्त्वादनित्यत्वम् अनित्यव्यावृत्तधर्मवत्त्वाच्च नित्यत्वं पुरस्कृत्य नित्या अनित्या वेति संशेते; तदापि हेतुभूतधर्मद्वयनिमित्तोऽयं संशयः । न ह्येक एवात्र हेतुः । गन्धस्तु तत्र सामान्यरूपस्तटस्थः; न तु हेतुः ॥
विप्रतिपत्तिमपि केचित् समानधर्म एवान्तर्भावयन्ति । यथा हि ऊर्ध्वत्वमुभयसाधारणम्, तथा वादिपरिगृहीतत्वादेरपि साधारणत्वात् विमतिविषयस्य धर्मिणो वा सामान्यवेषस्य तदुभयसाधारण्यादिति । तथापि साधारणधर्मस्य सहानुभूतस्थाणुत्वपुरुषत्वस्मारकत्ववत् विप्रतिपत्तेरपि समानधर्मोन्नीतिनिरपेक्षाया एव
तदुपजीव्यतया तत्पूर्वभाविन्याः साक्षात्तद्विशेषस्मारकत्वसिद्धेर्द्वैधमुक्तमस्माभिः ॥
पुनश्चायं द्वित्रिचतुरादिशिरोधिकरणभेदाद्बहुविधः; यथा - अयं स्थाणुर्वा पुरुषो वेति, घटः सत्योऽसत्यो निर्वचनीयोऽनिर्वचनीयो वेत्यादि । तथा इमौ स्थाणू वा पुरुषौ वा, एते पदार्थाः सत्या असत्या निर्वचनीया अनिर्वचनीया वेत्यादि । यस्तु द्वयोरन्यतरस्य चोरत्वे सिद्धे अयं चोरः अयं वा चोर इति संदेहः, स तु अयं चोरो न वा इत्येवंरूपसंशयद्वयसमाहारः । यद्वा यश्चोरः, सः अयम् अयं वा इत्येक एव । अथवा चोरत्वमेतन्निष्ठम् एतन्निष्ठं वेति । यद्यप्युभयव्यतिरिक्तपुरुषचोरत्वाभावे तयोरन्यतरस्य चोरत्वे वा तात्पर्यान्निर्णयगर्भत्वम्, तथापि उभयोरन्यतरविशेषनिर्णयाभावात् तस्मिन्नंशे संशय एव । न चैकस्यापि ज्ञानस्य संशयनिर्णयात्मताविरोधः, सर्वस्मिन्नपि संशये धर्म्यंशादौ निर्णयस्य दुस्त्यजत्वात् ॥
पुनर्द्विविधोऽयम् - अन्यतरकोटिपरिशेषयोग्यत्वतदयोग्यत्वभेदात् । पूर्वो यथा - स्थाण्वात्मके वस्तुनि स्थाणुः पुरुषो वेति । उत्तरस्तु पलालकूटे द्विरदो गिरिशिखरं वेति । तत्र निरूपकाणां प्रायशः पूर्व एव भवति । तेनैव च प्रवृत्तस्य पाक्षिकोऽर्थलाभः । यद्वा निरीहस्यैव कदाचित् द्वितीयेन संशयेन विपर्ययेण च प्रवृत्तस्य दैवात् तदातनार्थसंनिपातेनाभिमतलाभ इति ॥
पुनरपि इमौ संशयविपर्ययौ सामान्यधर्मिणो विशेषाणां चानुभूयमानत्वस्मर्यमाणत्वादिभेदात् बहुविधावूहनीयाविति ॥
किंसंज्ञकोऽयं वृक्ष इत्येवमादिरूपोऽनध्यवसायो नामान्यो ज्ञानविशेष इति केचित्; तदसारम्, तस्य संज्ञादिविशेषसंदेहसमनन्तरभावितद्विशेषबुभुत्सात्मकत्वात् । अथवा अवच्छेदकादर्शनादनवच्छिन्नकोटिविशेषः संशय एव ॥
ऊहस्तु प्रायः पुरुषेणानेन भवितव्यमित्यादिरूप एककोटिसहचरितभूयोधर्मदर्शनादनुत्कटान्यकोटिकः स एव । प्रायः पुरुषेण भवितव्यमिति पुरुष एवेत्यभिप्रायश्चेत् यथोचितं प्रत्यक्षानुमानादिष्वनुप्रवेशः । तर्करूपमूहं तु अनुमाने वक्ष्यामः ॥
त्रिविधं प्रमाणम् - प्रत्यक्षानुमानशब्दभेदात् । भगवता मनुनाऽप्युक्तम् -
“प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् ।
त्रयं सुविदितं कार्यं धर्मसिद्धिमभीप्सता ॥” इति ॥
आह च भगवान् शौनकः -
“दृष्टानुमानागमजं ध्यानस्यालम्बनं त्रिधा ।” इति ।
भाष्यकारेण च प्रत्यक्षादित्रयं स्वशब्देनोपादाय “प्रमाणसंख्याविवादेऽपि सर्वाभ्युपगतप्रमाणानामयमेव विषय इति न केनापि प्रमाणेन निर्विशेषवस्तुसिद्धिः” इत्यन्येषामनादरः कृतः । सर्वाभ्युपगतप्रमाणानामिति च पराभ्युपगममात्रं द्योतयति, तत्र प्रतिवादिनः षट्प्रमाणाभ्युपगमात् । प्रत्यक्षानुमानागमानामेव च मिथो भेदो वेदार्थसंग्रहे विशदमुपपादितः ॥
यत्तु “मत्तः स्मृतिर्ज्ञानमपोहनं च” इत्यत्र भाष्यम् - “ज्ञानमिन्द्रियलिङ्गागमयोगजो वस्तुनिश्चयः” इति, तत्रापि योगजस्य प्रत्यक्षस्य प्राधान्यात् पृथग्व्यपदेशः । अन्तर्भावं च वक्ष्यामः । उक्तं च श्रीविष्णुचित्तैः प्रमेयसंग्रहे - “प्रमाणसंख्याविवादेऽपीत्यत्र त्रिप्रमाणत्वं भाष्योक्तम्” इति । भाष्ये च केषुचित् कोशेषु यथार्थख्यातिसमर्थनदशायाम् - “अथवा किमनेन बहुनोपपादनप्रकारेण । प्रत्यक्षानुमानागमाख्यं प्रमाणजातमागमगम्यं च निरस्तनिखिलदोषगन्धमनवधिकातिशयासंख्येयकल्याणगुणगणं सर्वज्ञं सत्यसंकल्पं परं ब्रह्माभ्युपगच्छतां किं न सेत्स्यति किं नोपपद्यते -” इत्यादिः पाठो दृश्यते ॥
यद्यपि स्मृतिरपि यथार्था प्रमाणमिति वक्ष्यते, तथापि प्रत्यक्षादिमूलतया तदविशेषात् पृथगनुक्तिः । उक्तं च तत्त्वरत्नाकरे - “प्रत्यक्षादिमूलानां स्मृतीनां स्वस्वमूलेऽन्तर्भावविवक्षया प्रमाणत्रित्वाविरोधः । चतुष्ट्वे च वैदिकानुवादो दर्शितः” इति । स चायमनुवादः पूर्वोपात्तः - “स्मृतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम्” इति प्रत्यक्षाद्यविशेषेण वेदानुवादाच्च-इति । प्रज्ञापरित्राणे तु स्मृतिप्रामाण्यानभ्युपगमेऽपि ज्ञानस्य तावत् करणभेदाच्चातुर्विध्यमेवोक्तम्-
“तत्रेन्द्रियार्थसंबन्धो लिङ्गशब्दग्रहौ तथा ।
संस्कारोन्मेष इत्येते संविदां जन्महेतवः ॥” इति ॥
यत्तु तत्रैव -
“स्वयंसिद्धिस्तथा दिव्यं प्रत्यक्षमनुमागमः ।
पञ्च सन्ति प्रमाणानि जैमिनिव्यासयोर्हृदि ॥”
इत्यादिना स्वयंसिद्धिदिव्ययोः पृथङ्निरूपणं कृतम्, तत् प्रत्यक्षावान्तरवैरूप्यबोधनाभिप्रायम् । यथोक्तं श्रीविष्णुचित्तैः -“भगवत्प्रसादलब्धयोगिप्रत्यक्षं दिव्यम्” इति ॥