मूलम् - 1.2.2
तत्राद्ये पक्षे अन्यस्य अन्यथाध्यवसायो विपर्ययः । द्वितीये तु पक्षे सामान्यतो धर्मिस्फुरणे सति अप्रतिपन्नतद्विरोधविरुद्धविशेषाध्यवसाय इति ॥
स चायमनेकविधः-एकानेकविरुद्धविशेषस्फुरणात् । तत्र एकविशेषस्फुरणं यथा - पीतः शङ्ख इत्यादि । अनेकविशेषस्फुरणं यथा-एकमेव भिन्नमभिन्नं चेत्याद्यनेकान्तवादिनाम्, प्रपञ्चः सद्विलक्षणोऽसद्विलक्षणश्चेत्याद्यद्वैतवादिनाम् । परस्परविरुद्धानेकविशेषवत ईदृशस्य विपर्ययस्य संशयाद्भेदो मिथोविरोधाभिमानविरहेण समुच्चिताध्यवसायः । धर्मविरोधे परस्पराविरुद्धानेकविशेषस्फुरणं यथा - विपुलत्वैकत्वविशिष्टे चन्द्रे अल्पत्वद्वित्वादिग्रहः । विपर्ययमेव धर्मान्तरधर्म्यन्तरभेदादन्यथाख्यातिविपरीतख्यातिभेदेन क्वचिद्व्यवहरन्ति । यथा पीतशङ्खरज्जुसर्पभ्रमौ । तयोश्च रजस्तमसी मूलमिति गीयते - स चायमनेकविधः - एकानेकविरुद्धविशेषस्फुरणात् । तत्र एकविशेषस्फुरणं यथा - पीतः शङ्ख इत्यादि । अनेकविशेषस्फुरणं यथा - एकमेव भिन्नमभिन्नं चेत्याद्यनेकान्तवादिनाम्, प्रपञ्चः सद्विलक्षणोऽसद्विलक्षणश्चेत्याद्यद्वैतवादिनाम् । परस्परविरुद्धानेकविशेषवत ईदृशस्य विपर्ययस्य संशयाद्भेदो मिथोविरोधाभिमानविरहेण समुच्चिताध्यवसायः । धर्मविरोधे परस्पराविरुद्धानेकविशेषस्फुरणं यथा - विपुलत्वैकत्वविशिष्टे चन्द्रे अल्पत्वद्वित्वादिग्रहः । विपर्ययमेव धर्मान्तरधर्म्यन्तरभेदादन्यथाख्यातिविपरीतख्यातिभेदेन क्वचिद्व्यवहरन्ति । यथा पीतशङ्खरज्जुसर्पभ्रमौ । तयोश्च रजस्तमसी मूलमिति गीयते -
“यया धर्ममधर्मं च कार्यं चाकार्यमेव च ।
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥
अधर्मं धर्ममिति या मन्यते तमसा वृता ।
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥” इति॥
यद्यपि रज्जुसर्पादिभ्रमे रज्जुत्वादिधर्मविपरीतसर्पत्वादिधर्माध्यास एव, तथापि स्वरूपनिरूपकधर्मत्वेनान्तरङ्गतया धर्मिवैपरीत्यव्यपदेशः । श्वैत्यादेस्तु निरूपितस्वरूपविशेषकत्वमेव । विवरणे त्वेवमुक्तम् - “त्रिविधमज्ञानम् - स्वरूपाज्ञानम्, अन्यथाज्ञानम्, विपरीतज्ञानमिति । स्वरूपाज्ञानं नाम वस्तुनोऽप्रतिपत्तिः । अन्यथाज्ञानं वस्तुनो वस्त्वन्तरतया भानम्; यथा - शुक्तेः रूप्यतया । विपरीतज्ञानं तु यथावत् वस्तुनि भासमाने युक्तिभिस्तस्यान्यथोपपादनम्; यथा - ज्ञातृतया अहंत्वेन आत्मनि भासमानेऽपि कुयुक्तिभिरस्य भ्रान्तितोपपादनं कुदृशाम्” इति । अधर्मेन्द्रियदोषदुस्तर्काभ्यासदुर्व्याप्त्यनुसंधानविप्रलम्भकवाक्यश्रवणादिभिस्तत्त्वाग्रहसहकृतैर्विपर्ययस्य यथासंभवमुद्भवः ॥