09 अवतारिका

मूलम् - 1.2.1

तदिहान्यथाख्यातिपक्षे विपर्ययस्य संशयस्य च व्यवच्छेदार्थम् “यथावस्थितव्यवहारानुगुणं ज्ञानम्” इति प्रमाणलक्षणे यथावस्थितादिविशेषणम् । अख्यातिपक्षेऽपि तत्सामग्र्यनुप्रविष्टं ज्ञानं तत्तच्छब्देन व्यपदिश्यते । तच्च तत्राप्रमाणमिति लोकसिद्धत्वाद्व्यवच्छेद्यमेव । तत्रापि प्रत्येकांशे याथार्थ्यं न विहन्यते ॥