मूलम् - 1.1.7
॥ प्रमालक्षणपरीक्षणम् ॥
तत्रास्मदीया एव केचिदन्यथाख्यातिमिच्छन्तः स्मृतेः प्रामाण्यमनिच्छन्तः सम्यगनुभवः प्रमेति लक्षयन्ति; उभयमिच्छन्तः, यथार्थज्ञानं प्रमेति; उभयमनिच्छन्तः, अनुभूतिः प्रमेति । एवंप्रायाणि च वाद्यन्तरोक्तानि लक्षणानि ॥ वयं तु ब्रूमः - यथावस्थितव्यवहारानुगुणं ज्ञानं प्रमेति ।
यथार्थख्यातिमख्यातिमन्यथाख्यातिमेव वा । इच्छद्भिर्न विमन्तव्यमिदं लोकानुसारतः ॥
स्मृतिमात्राप्रमाणत्वं न युक्तमिति वक्ष्यते । अबाधितस्मृतेर्लोके प्रमाणत्वपरिग्रहात् ॥
बुद्धागमादित्यागे च न हेतुः स्मृतिमूलता । विशुद्धस्मृतिमूलेऽपि मानवादौ प्रसङ्गतः ॥
भ्रान्तिं प्रमातो भिन्दन्तो न चाहुः स्मृतिमानताम् । स्मृतित्वमेव हि व्यक्तमप्रामाण्यं भवन्मते ॥
पीतशङ्खभ्रमादौ च न ह्येतदुपपद्यते । चक्षुषैव हि शङ्खादेः पीतिमादेश्च तत्र धीः ॥
ततश्च प्रतिपत्तौ वा व्यवहारोदयेऽपि वा । तथाभावान्यथात्वाभ्यां प्रमाभ्रान्तिव्यवस्थितिः ॥
विपर्ययादेर्व्यावृत्तिरेवमेव हि सिध्यति । यत्किंचिदन्यथात्वं हि वैपरीत्यमितीष्यते ॥
आत्मख्यात्यादिवादेष्वप्यन्यथात्वमवारितम् । भ्रमप्रवृत्तिबाधादेरन्यथा न हि संभवः ॥
एवं सत्यन्यथाधीस्तत्सामग्री वाऽपि लाघवात् । अयथाव्यवहारस्य हेतुरित्यवशिष्यते ॥
सर्वैरप्यन्यथाख्यातिर्दुस्त्यजत्वाल्लघीयसी । तद्वादिनाप्यवर्ज्यत्वात् ततोऽप्यख्यातिलाघवम् ॥
स्वारस्यमन्यथाख्यातावख्यातौ लाघवं स्थितम् । इति दर्शयितुं भाष्ये द्वितयं तदनुज्झितम् ॥
यन्नाथमुनिमिश्राद्यैर्यथार्थख्यातिसाधनम् । तल्लोकबुद्ध्यनारोहाद्वैभवं केचिदूचिरे ॥
मानाद्रूप्यादिसत्त्वेऽपि तयोरन्यतरद्ध्रुवम् । कार्याक्षमत्वाग्रहणात् तत्क्षमत्वग्रहेण वा ॥
ख्यात्यन्तराणां दोषास्तु तत्तत्सिद्धान्तशीलने । स्वयमेवोन्मिषन्त्येव संग्रहात् किंचिदुच्यते ॥
तत्रात्मख्यातौ तावत् -
अन्यद्विज्ञानमस्तीति धीरन्यविषया न वा । आद्येऽर्थस्यापि तद्वद्धीरन्यत्रैकैव धीर्भवेत् ॥
संतानान्तरविज्ञानं स्वसंताने क्षणान्तरम् । या धीः साधयते सा हि स्वतो बाह्यं विगाहते ॥
सहोपलम्भनियमः संविदो ग्राह्यलक्ष्म च । बोधेऽप्यर्थ इवेत्येवं ज्ञानार्थैक्यं न तद्भवेत् ॥
दोषादिहेतुजालस्य मिथ्यात्वेऽपि यथेष्यते । अधिष्ठानस्य मिथ्यात्वेऽप्यनिवार्यस्तथा भ्रमः ॥
ततो माध्यमिकस्यैव पक्षस्तत्रावशिष्यते । न च तत्रापि निस्तारः सर्वथानुपपत्तितः ॥
असत्त्वं लौकिकं ब्रूषे लोकोत्तरमथाऽपि वा । न निषेधो निरुपधिः पूर्वत्रान्यन्न धीपदम् ॥
चतुष्कोटिविमुक्तं च तत्त्वं प्रामाणिकं न वा । पूर्वत्र तावती सत्ता न चेत् तद्धीरसन्मतिः ॥
अन्येषां च निरधिष्ठानख्यातौ -
अत्रासदेव भवतामत्रेति ख्यायते न वा । आद्ये सिद्धमधिष्ठानं द्वितीये ख्यात्यपह्नवः ॥
किं च स्वनेत्रनिष्ठ्यूतं तिमिरं तिमिरार्दितैः । केशस्तबकसादृश्यात् तथा भात्येवमीदृशाः ॥
यद्यप्यविद्यमानोऽर्थो विद्यमानतया स्फुरेत् । तथाऽप्यसावधिष्ठानं स्वदेशादौ मितो हि सः ॥
इदंत्वेन प्रतीतेऽर्थे तदारोपं परे विदुः । तस्मिन्निदंत्वारोपस्ते फलतस्तुल्यता द्वयोः ॥
अनिर्वचनीयख्यातौ -
अनिर्वाच्यतया वस्तु निरुच्येत न वा त्वया । आद्ये विरोधो विविधो द्वितीयेऽस्मन्मतस्थितिः ॥
सदसद्व्यतिरेकोऽपि विरुद्धो यदि गृह्यते । सदसद्रूपता किं नु प्रतीता तु न गृह्यते ॥
अनुष्णाशीतवत् तुच्छाद्ब्रह्मणश्चातिरेकिता । साध्येत ख्यातिबाधादेर्यदि सिद्धं तदत्र नः ॥
न च विश्वस्य बाधोऽपि स्वरसादुपजायते । अप्रतिष्ठितयुक्त्या तु बाधो ब्रह्मापि संस्पृशेत् ॥
नाशात् सदितरत्वं च नाशकाले यदीष्यते । स्वकाले यदि बाधः स्यान्नाशस्याप्यनिरूपणम् ॥
नित्यत्वेन श्रुतानां च केषां चिन्न हि नाशिता । भागासिद्धस्ततो हेतुर्न चैक्यं नाशबाधयोः ॥
निर्विषयख्यातौ -
विषयालीकभावादौ ख्यात्यन्तरपरिग्रहः । अनुल्लेखस्तु रूप्यादिधीरित्युक्त्या निबर्हितः ॥