मूलम् - 1.1.6
॥ प्रमाणाप्रमाणव्यवस्थापनम् ॥
अस्ति तावदिदं प्रमाणमिदमप्रमाणमिति प्रसिद्धो लौकिकपरीक्षकव्यवहारघण्टापथः । तदनादरे तु निराश्रयतया परीक्षणस्याप्यनुदयः ॥
व्यवहारो हि जगतो भवत्यालम्बने क्वचित् । न तत्सामान्यतो नास्ति कथंता तु परीक्ष्यते ॥
सामान्यनिश्चितार्थेन विशेषे तु बुभुत्सिते । परीक्षा ह्युचिता स्वेष्टप्रमाणोत्पादनात्मिका ॥
न सर्वस्याप्रमाणत्वं स्वपक्षस्य स्वतः क्षतेः । न सर्वस्य प्रमाणत्वं स्वपक्षस्यान्यतः क्षतेः ॥
सिद्ध्यसिद्ध्योः स्वपक्षस्य सिद्धा लोकव्यवस्थितिः । तत्सिद्ध्यसिद्ध्योस्त्वत्पक्षो न कथंचन सिध्यति ॥
प्रमाणेन प्रमाणस्य बाधः स्वव्याहतेर्हतः । अप्रमाणेन तद्बाधे साधनं च ततो न किम् ॥
अप्रमाणात् प्रमाणाद्वा मानसिद्धिर्न चेन्न तत् । यतः प्रमाणतस्तस्य सिद्धिः स्वपररक्षिणी ॥
बाधाबाधव्यवस्थाऽपि मानतः स्याद्व्यवस्थितात् । अन्यथा त्वव्यवस्थाया न व्यवस्थेत्यवस्थितेः ॥
सर्वत्रानिर्णये न स्तः संशयोत्पत्तिनिर्णयौ । यथा तत्कोटितत्सिद्धिस्तथान्यत्रापि युज्यते ॥
धर्मिसाधारणाकारकोटीनां पूर्वनिश्चये । असावयमयं वेति ह्याविर्भवति संशयः ॥
सर्वत्र संशयस्तावन्न सर्वस्यापि दृश्यते । सर्वं संदिग्धमिति ते निपुणस्यास्ति निश्चयः ॥
संशयश्च न संदिग्धः संदिग्धाद्वैतवादिनः । दूरं गत्वापि दुर्वारः संशये निर्णयस्तव ॥
मानामानविभागेऽतः सामान्येन व्यवस्थिते । क्वाचित्कसंशयोच्छित्त्यै लक्षणं संप्रचक्षते ॥
तत्र व्युत्पत्तिविवक्षाभेदात् प्रमितिं तत्करणं च यथेच्छं प्रमाणमाहुरित्यवोचाम, आश्रयप्रामाण्यस्यानादेशिकत्वात् । “आप्तप्रामाण्यात्” - आप्तोक्तत्वहेतोः प्रामाण्यादित्यर्थः । न हि वक्तृप्रामाण्यं वाक्यप्रामाण्य उपयुज्यते लौकिकवाक्येषु; किंतु कारणदोषाभावः । द्विधापि प्रमितिरेव शोध्या ॥