05 प्रयोजननिरूपणम्

मूलम् - 1.1.5

॥ प्रयोजननिरूपणम् ॥
प्रत्यक्षादिप्रमाणेन शुद्धिः पदतदर्थयोः । मानमेयादिनियतिर्निर्दोषोक्तेश्च मानता ॥
ग्रावप्लवनवाक्यादावान्यपर्यं विरोधतः । चित्रापशुफलत्वादावबाधद्वारसंग्रहः ॥
अनुवादविधानादिचिन्ता प्राप्त्यादिपूर्विका । प्रत्यक्षादिष्वसिद्धेषु न कल्पेत कथंचन ॥
एवमाद्युपयोगेन मुनिभिर्न्यायविस्तरः । वेदानुग्रहणाद्धर्मविद्यास्थानतयोदितः ॥
आगमाख्यप्रमाणे तु संशुद्धे न्यायविस्तरात् । तद्विशेषस्य मीमांसा साधयेद्धर्ममानताम् ॥
प्रमेयस्यापि संशुद्धिरन्ततो ब्रह्मचिन्तनात् । इह तस्य निवेशस्तु तादर्थ्यादिप्रसिद्धये ॥
प्रमाणमेवास्य शास्त्रस्य प्राधान्यतो विषयः । तत्र प्रेक्षावदधिचिकीर्षासिद्ध्यर्थम् - प्रमेयतत्त्वज्ञानं हानोपादानद्वारा निःश्रेयसहेतुः, तच्च सपरिकरात् प्रमाणात् - इति परम्परया प्रयोजनज्ञापनाय प्रदर्शनमात्रमिहाभिमतम् । अतः प्रधानविषयतया, प्रमेयादिसाधकतया च प्रमाणं प्रमेयादपि पूर्वमुच्यते । तत्र व्यवच्छेद्यत्वाङ्गत्वादिमुखेन संशयादयोऽपि चतुर्दश यथायथं निरूप्यन्ते । न च षोडशत्वे निर्बन्धः, (अतथात्व)विपर्ययत्वाद्युपाध्यन्तराधीनसंग्रहविभजनाभ्यां न्यूनाधिकोद्देशस्यापि शक्यत्वात् उपयोगानुपयोगाविशेषाच्च । एतावदेव गौतमस्यापि हृदयमिति ॥