04 अधिकारिविवेचनम्

मूलम् - 1.1.4

॥ अधिकारिविवेचनम् ॥
नियताधिकारश्चायं न्यायविस्तरः ।
अधिकाराच्च नियतः स्यादयं न्यायविस्तरः । अप्रत्यवायो माहात्म्याद्दयालुः शास्त्रमब्रवीत् ॥ १० ॥
सर्वाधिकारमित्येतदसमीक्षितभाषितम् । कथमागमवृत्तान्तमनधीतागमा विदुः ॥ ११ ॥
निषिद्धे प्रेरयंस्तान्वा कथं कारुणिको भवेत् । न च शक्या नरशिरःपावित्र्याद्यनुमाक्षतिः ॥ १२ ॥
विहायागममक्षाद्यैर्द्विधा तत्रापि विप्लवः । श्रुत्यां ह्यनधिकारित्वात्तदन्यत्राव्यवस्थितेः ॥ १३ ॥
धर्मक्षोभामुमाभङ्गे कथं शूद्रादयः क्षमाः । अथ त्रैवर्णिकैरुक्ते त्वन्यो विश्वसितीत्यपि ॥ १४ ॥
स्वयं न्यायविचारेऽस्य फलत्यनधिकारिता(म्) । प्रत्यक्षानुमयोर्यत्र नित्यं वेदानपेक्षता ॥ १५ ॥
तत्रापशूद्रभाष्योक्ता शूद्रादेरप्यधिक्रिया । चतुर्दशापि स्थानानि भगवान् धर्मविद्ययोः ॥ १६ ॥
न स्प्रष्टव्यानि शूद्रैरित्यब्रवीदाश्वमेधिके । “अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ॥ १७ ॥
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ।” यान्युक्तानि मया सम्यग्विद्यास्थानानि भारत ॥ १८ ॥
उत्पन्नानि पवित्राणि पावनार्थं तथैव च । तस्मात्तानि न शूद्रस्य स्प्रष्टव्यानि कथंचन ॥ १९ ॥ इति ॥
तस्मादेतानि त्रैवर्णिकैरध्येतव्यानि । तत्र ब्राह्मणेन विद्याप्राप्तये धर्मानुष्ठानाय चाधिगन्तव्यानि । क्षत्रियवैश्याभ्यां धर्मानुष्ठानायैव । तथा शङ्खेन विद्यास्थानान्यनुक्रम्योक्तम् - “एतानि ब्राह्मणोऽधिकुरुते । स च वृत्तिं दर्शयतीतरेषाम्” इति । एवमेव धर्मशास्त्रसंग्राहकैः समर्थितम् । ततश्च येषां कर्मब्रह्ममीमांसावसेयतत्त्वहितरूपप्रमेयचिन्ताधिकारः, तेषामेव (तात्पर्यपर्य)तत्पर्यवसायितया धर्मविद्यास्थानाभिमतन्यायविस्तराधिकार इति सिद्धम् ॥