03 गौतमसूत्रस्वीकारपक्षः

मूलम् - 1.1.3

॥ गौतमसूत्रस्वीकारपक्षः ॥
अङ्गीकारकाङ्क्षिणामक्षपादीयमप्यस्मदुक्तैकान्ततया स्थास्यति; तथैव स्थापयिष्यामः । अतो वयमपि महतामयुक्तार्थतात्पर्यकल्पनेन नापराध्येम, न्यूनाधिकविरुद्धव्यपदेशादीनामलक्षणलक्षणोक्तीनां चाध्याहारान्यपर्याभ्यां तद्भक्तैरपि निर्वाहात् । तथाऽस्मिन् यत्र स्फुटः श्रुतिस्मृतिशारीरकविरोधः, स उद्देशतो निरुह्यते ॥
यत्तावत्सूत्रितं प्रथमाध्याये - “घ्राणरसनचक्षुस्त्वक्छ्रोत्राणीन्द्रियाणि भूतेभ्यः” इति; अत्र ज्ञानेन्द्रियपञ्चकोपादानं नेन्द्रियान्तरप्रतिक्षेपार्थम्; मनसः पृथक्प्रमेयतया उद्देशात्, अनन्तरमेव च “युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्” इति लक्षणकरणात् अभ्युपगमसिद्धान्तन्यायेन च तदिन्द्रियत्वपरीक्षणात् । अतश्चोक्तेन समानयोगक्षेमयुक्तिप्रमाणकः कर्मेन्द्रियवर्ग उपलक्षणीयः, “प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः” इति सूत्रे वाचः कण्ठोक्तेः पाण्यादिचतुष्टयस्य शारीरव्यापारकरणतया सूचनादिति ॥
शरीरके तु “सप्तगतेर्विशेषितत्वाच्च” इति पूर्वपक्षमुपक्षिप्यासाधयच्च हस्तादीनामपीन्द्रियत्वं भगवान् बादरायणः - “हस्तादयस्तु स्थितेऽतो नैवम्” इति । “भूतेभ्यः” इति च नोपादानाभिप्रायम्, अहंकारोपात्तानामाप्यायकभूतविवक्षयापि तदुपपत्तेः । तथा च वेदार्थसंग्रहे - “एवमाहंकारिकाणामिन्द्रियाणां भूतैश्चाप्यायनं महाभारत उच्यते” इति समाधानम् ऋष्यन्तरवाक्यस्यापि समानन्यायस्य निर्वाहार्थम् । परस्परविरुद्धप्रमाणवाक्येषु तात्पर्यविशेषपरिकल्पनया परिहार एव हि पण्डितकृत्यम् । अनित्यमनोवादिभिरपि हि “अन्नमयं हि सोम्य मनः” इति श्रुतिराप्यायनपरतयैव योज्या । तुल्यमिदमन्यत्रापीति ॥
यत्तु - “बाधनालक्षणं दुःखम्”, “तदत्यन्तविमोक्षोऽपवर्गः” इति, तत्र दुःखात्यन्तनिवृत्तेरपवर्गत्वं सर्वाङ्गीकृतम् । न च तत्रानन्दः श्रौतः कण्ठोक्त्या प्रतिषिध्यते । तदभिप्राये चानन्यथासिद्धं किमपि न लिङ्गं पश्यामः । अत एव हि भूषणमते नित्यसुखसंवेदनसंबन्धसिद्धिरपवर्गे साधिता । एतेन “तस्मात्सर्वदुःखविमोक्षोऽपवर्गः” इति चतुर्थाध्यायवाक्यमपि निर्व्यूढम्, तत्राप्यानन्दनिषेधाभावात् ॥
यच्च शारीरकद्वितीयाध्यायविरुद्धमिह द्वितीयाध्याये अवयविसमर्थनमिवाभाति, तदपि तदेकार्थं योजयितुं शक्यम् । तथा हि - “न चैकदेशोपलब्धिरवयविसद्भावात् । साध्यत्वादवयविनि संदेहः । सर्वाग्रहणमवयव्यसिद्धेः । धारणाकर्षणोपपत्तेश्च । सेनावनवद्ग्रहणमिति चेन्नातीन्द्रियत्वादणूनाम् ।” इत्येतानि हि तत्सूत्राणि; न तानि विरुध्यन्ते, सेनावनादिव्यावृत्तावयव्यारम्भकतया तदसमवायिकारणत्वाभिमतावस्थाविशेषापन्नः संघातविशेष एवावयविशब्देन निर्दिश्यत इत्यविरोधात्, तावतैव उपलम्भव्यवहारविशेषादेश्चरितार्थत्वात् । अतीन्द्रियाणुवचनमपि प्रदीपावयवानामिवैन्द्रियिकाणामेवावस्थाविशेषेणातीन्द्रियत्वाभ्युपगमादविरुद्धम् । अव्यक्तमेव हि त्रिगुणद्रव्यमवस्थाविशेषाद्व्यक्तं भवतीत्यागमिकाः । प्रत्येकमुपलम्भायोग्यानामपि संहतिविशेषरूपावस्थाभेदादैन्द्रियिकत्वतत्तारतम्यादिकं हिमानीचूर्णपुञ्जादिष्वनारब्धावयविषु लोकसिद्धम् । उपमानाख्यप्रमाणान्तरसमर्थनं तु न्यायैकदेशिभिरेवोपमानस्यानुमानान्तर्भावप्रतिक्षेपमात्रपरतया निर्व्यूढम् ॥
यच्च - “पूरणप्रदाहपाटनानुपलब्धेश्च संबन्धाभावः” इति शब्दार्थसंबन्धाभावमुपक्षिप्य परिहरता “शब्दार्थव्यवस्थानादप्रतिषेधः”, “न सामयिकत्वाच्छब्दादर्थसंप्रत्ययस्य” इत्यादिना सामयिकत्वमुक्तम्, तदपि संप्रतिपन्नसामयिकत्वद्वारा अनुमानादिविलक्षणसंबन्धविशेषख्यापनार्थमिति योज्यम्; अनादिनिधनाविच्छिन्नसंप्रदायवेदवर्तिनां पदानां मन्वादिवचनविरुद्धसाङ्केतिकत्वोपपादनकॢप्त्यसंभवात् । यच्च “मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात्” इति, एतदप्यनादिनिधनस्यैव वेदस्य प्रतिकल्पमीश्वरेणाप्ततमेन यथापूर्वं प्रवर्तनमभिसंधायेति सुगमम् ॥
वर्णानित्यत्ववर्णनं तु न श्रुत्यादिविरुद्धम्; प्रत्युतानुकूलमेव । शारीरकदेवताधिकरणे वर्णानित्यत्वमभ्युपगम्यैव हि “अत एक च नित्यत्वम्”, “समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च” इति वेदनित्यत्वं साधितम् ॥
यत्तु जैमिनीयशब्दाधिकरणे वर्णनित्यत्वसमर्थनं व्याचख्युः; स तु व्याख्यातॄणामेवापराधः, असांकेतिकवाचकाकारनित्यत्वपरत्वेनान्यपरत्वात्तस्याधिकरणस्य ॥
यच्च द्वितीयाध्यायान्ते “व्यक्त्याकृतिजातयस्तु पदार्थः” इत्युक्तम्, तत्रापि न वैशेषिकाभ्युपगतजातिस्वीकारे लिङ्गं पश्यामः । न ह्यत्र द्रव्यगुणादिपदार्थपरिसंख्यानं क्रियते, “ते विभक्त्यन्ताः पदम्” इति प्रतिपादितपदवाच्यप्रदर्शनपरत्वात् । अनन्तरं च तिसृणामेव(वं) लक्षणमाह - “व्यक्तिर्गुणविशेषाश्रयो मूर्तिः”, “आकृतिर्जातिलिङ्गाख्या”, “समानप्रसवात्मिका जातिः” इति । इह तु वस्तुस्वरूपनिरूपितस्वरूपविशेषकधर्मस्वरूपनिरूपकधर्मविषयतया यथासंभवं योज्यम् । अतो न द्वितीयाध्यायेऽपि वेदान्तविरोधः । तृतीये “दर्शनस्पर्शनाभ्यामेकार्थग्रहणात्” इत्यादिकं बाह्यान्तरिन्द्रियादिनिरूपणादिकं चात्यन्तोपयुक्तम् । न च मनोनित्यत्वादिकं तत्र सूत्रितम्; येन तदुत्पत्त्यादिश्रुतिकोपः ॥
यच्चात्रोक्तम् - “गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकं श्रुतिप्रामाण्याच्च” इति, एतदेव यथाश्रुतं सिद्धान्ततया स्वीकार्यम् । यदपि “गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः”, “अप्तेजोवायूनां पूर्वंपूर्वमपोह्याकाशस्योत्तरः” इति गुणव्यवस्थापनम्, तत्र तु तथैवाभ्युपगमेऽपि न वस्त्वन्तरविरोधः । तथाऽप्याकाशादिषु शब्दादेरेकद्वित्रिचतुष्पञ्चक्रमेण पुराणेषु पाठात्, आकाशानुप्रवेशादन्यत्र शब्द इति निर्वाहे वाय्वाद्यनुप्रवेशादुत्तरोत्तरेषु स्पर्शादिरिति निर्वोढुं शक्यत्वात्, उपलम्भान्वयव्यतिरेकाभ्यां व्यवस्थापनस्यापि समत्वात्, गन्धादिसूत्रं पृथिव्यास्ते सन्त्येवेत्ययोगव्यवच्छेदेन निर्वाह्यम् । “आकाशस्योत्तरः” इत्यत्र तु तस्य स एवेत्यन्ययोगव्यवच्छेदेन । कतिकति चैवं सूत्राणि क्लिष्टानि परैरपि निरुह्यन्ते ॥
यच्च, “स्वगुणान्नोपलभन्त इन्द्रियाणि कस्मादिति चेत्”, “सगुणानमिन्द्रियभावात्” इत्यत्र “न शब्दगुणोपलब्धेः” इत्युक्तम्; तत्रापि श्रोत्रेन्द्रियस्य आकाशाप्यायितत्वादाप्यायकगुणस्य तद्गुणतां पटनैल्यपानीयसौरभादिवत्प्रकल्प्योक्तमुत्तरम् । अथवा यथागममाहङ्कारिकत्वमिन्द्रियाणामजानतश्चोद्ये भूताप्यायितेन्द्रियपक्षे स्थित्वैवेदमुत्तरं गूढाभिप्रायेण दीयत इति । एतदुक्तं भवति - भवता किमिन्द्रियगुणोपलम्भाभाव उच्यते, किं वा तदाप्यायकगुणोपलम्भाभावः? पूर्वत्राङ्गीकार एवोत्तरम्, शब्दादीनामनिन्द्रियगुणत्वात्; उत्तरत्र व्यभिचार इति । अतो न वेदान्तविरोधप्रसङ्गः ॥
चतुर्थेऽध्याये प्रवृत्तिरागद्वेषादिनिरूपणम्, आत्मनित्यत्वादिना प्रेत्यभावादिप्रतिपादनम्, अनिमित्तभावोत्पत्तिसर्वानित्यत्वसर्वनित्यत्वादिनिराकरणं(निरूपणं) चात्यन्तानुगुणम् । अवयविप्रसङ्गश्च प्रागुक्तन्यायेन नेतव्यः । पञ्चमस्तु जातिनिग्रहस्थानमात्रोपक्षीणो न क्वचित्तत्त्व उपकरोति । व्यवहाराङ्गविमर्शसौन्दर्यासौन्दर्यादिकं तु वास्तवलक्ष्यलक्षणयुक्त्यादिपरामर्शवैज्ञानिकैरर्थस्थितिमात्रानुसारादनादरणीयम् । यत्पुनरर्वाग्भिरक्षचरणपञ्चाध्याय्यां कुशकाशावलम्बने कणचरणकथां निवेश्य नैगमिक्यः पदव्यो निरुध्यन्ते, तत्र तु नूनं स एव गौतमः स्वयमन्तः प्रहसति ॥
॥ इति स्वीकारपक्षः ॥
यद्वा - नातीव च बहिष्कारो नातीव च परिग्रहः । सांख्यादिवदिहापि स्यात्समाधिस्तौषतण्डुलः ॥ ८ ॥
उपजीव्यबहुत्वेन विद्यास्थाननिवेशनम् । विरुद्धांशैकविषया सूत्रादिषु बहिष्क्रिया ॥ ९ ॥